संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय १ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय १ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय १ Translation - भाषांतर ॐ नमो भगवते वासुदेवाय ।नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं चैव ततो जयमुदीरयेत् १द्वैपायनौष्ठपुटनिःसृतमप्रमेयं ।पुण्यं पवित्रमथ पापहरं शुभं च ।यो भारतं समधिगच्छति वाच्यमानं ।किं तस्य पुष्करजलैरभिषेचनेन २अथ प्रथमोऽध्यायः ।कृताभिषेकन्तनयं राज्ञः पारीक्षितस्य ह ।द्रष्टुमभ्याययुः प्रीत्या शौनकाद्या महर्षयः १तानागतान्स राजर्षिः पाद्यार्घ्यादिभिरर्चितान् ।सुखोपविष्टान्विश्रान्तान्कृतसम्प्रश्नसत्कथान् २तत्कथाभिः कृताह्लादः प्रणिपत्य कृताञ्जलिः ।शतानीकोऽथ पप्रच्छ नारायणकथां पराम् ३राजोवाच ।यमाश्रित्य जगन्नाथं मम पूर्वपितामहाः ।विपक्षापहृतं राज्यमवापुः पुरुषोत्तमाः ४द्रौणिब्रह्मास्त्रनिर्दग्धो मम येन पितामहः ।परीक्षित्प्राणसंयोगं देवदेवेन लम्भितः ५तस्य देवस्य माहात्म्यं देवर्षिसिद्धमनुजैः ।श्रुतं सुबहुशो मया स्तुतस्याशेषजन्मनः ६कः स्तोतुमीशस्तमजं यस्यैतत्सचराचरम् ।अव्ययस्याप्रमेयस्य ब्रह्माण्डमुदरे शयम् ७रुद्रः! क्रोधोद्भवो यस्य प्रसादाच्च पितामहः ।तस्य देवस्य कः शक्तः प्रवक्तुं वा विभूतयः ८सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभोः ।श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् ९केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया ।दानैर्व्रतोपवासैर्वा जप्यैर्होमैरथापि वा १०आराधितः समस्तानां क्लेशानां हानिदो हरिः ।शक्यः समाराधयितुं तन्नः शंसत सत्तमाः ११विद्यानामपि सा विद्या श्रुतानामपि तच्छ्रुतम् ।रहस्यानां रहस्यं तद्येन विष्णुः प्रसीदति १२मन्त्राणां परमो मन्त्रो व्रतानां तन्महाव्रतम् ।उपोषितं हि तच्छ्रेष्ठं येन तुष्यति केशवः १३सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् ।तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ १४सुजन्म देहमत्यन्तं तदेवाशेषजन्मसु ।यदेव पुलकोद्भासि विष्णोर्नामाभिकीर्तनात् १५सा हानिस्तन्महच्छिद्रंसा चान्धजडमूकता ।यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते १६नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका ।रोगो वान्यो न सा जिह्वा या न वक्ति हरेर्गुणान् १७सन्त्यनेका बिलास्तद्वच्छ्रोत्रमप्यल्पमेधसाम् ।दत्त्वावधानं यच्छब्दे विनैव हरिसंस्तुतिम् १८धर्मार्थकामसम्प्राप्तौ पुरुषाणां विचेष्टितम् ।जन्मन्यविफला सैका या गोविन्दाश्रया क्रिया १९दुर्गसंसारकान्तारमपारमभिधावताम् ।एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः २०सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं नभः ।सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः २१एवमादिगुणो भोगः कृष्णस्याद्भुतकर्मणः ।श्रुतो मे बहुशो सिद्धैः गीयमानस्तथापरैः २२सोऽहमिच्छामि तं देवं सर्वलोकपरायणम् ।नारायणमशेषस्य जगतो हृद्यवस्थितम् २३आराधयितुमीशानमनन्तममितौजसम् ।शङ्करं जगतः प्राणं स्मृतमात्राघहारिणम् २४तन्ममाद्य मुनिश्रेष्ठाः प्रसादयितुमिच्छतः ।उपदेशप्रदानेन प्रसादं कर्तुमर्हत २५तस्यैतद्वचनं श्रुत्वा भक्तिमुद्वहतो हरेः ।परितोषं परं जग्मुर्मुनयः सर्व एव ते २६सर्वे च ते मुनिश्रेष्ठा भृगुश्रेष्ठं च शौनकम् ।यथार्थं भगवंस्तस्मै कथ्यतामित्यचोदयन् २७सर्वज्ञाननिधिः स्फीतस्त्वमत्र भृगुनन्दन ।त्रैलोक्यसर्वसन्देहतमोदीपस्तपोधन २८एवमुक्तो मुनिवरैः प्रीत्या तस्य च भूपतेः ।भक्त्या च देवदेवस्य प्रवणीकृतमानसः २९कृत्वोत्तरीयपर्यङ्कं शिथिलं भगवानथ ।प्रत्युवाच महाभागः शौनकस्तं महीपतिम् ३०शौनक उवाच ।यत्पृच्छसि महीपाल कृष्णस्याराधनं प्रति ।व्रतोपवासजप्यादि तदिहैकमनाः शृणु ३१अनादिमत्परं ब्रह्म सर्वहेयविवर्जितम् ।व्यापि यत्सर्वभूतेषु स्थितं सदसतः परम् ३२प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते ।नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः ३३तत्क्षोभकत्वाद्ब्रह्माण्डसृष्टिहेतुर्निरञ्जनः ।अहेतुरपि सर्वात्मनः जायते परमेश्वरः ३४प्रधानपुरुषत्वं च तथैवेश्वरलीलया ।समुपैति ततश्चैव ब्रह्मत्वं छन्दतः प्रभुः ३५ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये ।रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुतेऽव्ययः ३६तदेकमक्षरं धाम परं सदसतोर्महत् ।भेदाभेदस्वरूपस्थं प्रणिपत्य परं पदम् ३७प्रवक्ष्यामि यथा पूर्वं मत्पित्रा कथितं मम ।तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ३८तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः ।सकाशाद्ब्रह्मणः प्राप्तं भृगुणापि महात्मना ३९मरीचिमिश्रैश्च पुरा परमेतन्महर्षिभिः ।प्राप्तं सकाशाद्देवस्य ब्रह्मणो व्यक्तजन्मनः ४०योगं ब्रह्मा परं प्राह महर्षीणां यदा प्रभुः ।समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् ४१तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः ।सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् ४२यो योगो भवतारोक्तो मनोवृत्तिनिरोधजः ।प्राप्तुं शक्यः स त्वनेकैः जन्मभिर्जगतः पते ४३विषया दुर्जया नॄणामिन्द्रियाकर्षणाः प्रभो ।वृत्तयश्चेतसश्चापि चपला चातिदुर्धराः ४४रागादयः कथं जेतुं शक्या वर्षशतैरपि ।न योगयोग्यं हि मनो भवत्येभिरनिर्जितैः ४५अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेऽप्यमी ।त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ४६भगवंस्त्वमुपायज्ञः प्रसन्नो वक्तुमर्हसि ।अनायासेन येनेममुत्तरेम भवार्णवम् ४७दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महाप्लवम् ।उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय ४८एवमुक्तस्तदा ब्रह्मा क्रियायोगं महात्मनाम् ।तेषामृषीणामाचष्ट नराणां हितकाम्यया ४९ब्रह्मोवाच ।आराधयत विश्वेशं नारायणमतन्द्रिताः ।बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् ५०इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम् ।व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः ५१तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः ।अपरिच्छेद्यमाहात्म्यमाराधयत केशवम् ५२तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः ।तद्दृष्टयस्तन्मनसः सर्वस्मिन्स इति स्थितः ५३समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि ।सन्न्यस्यध्वं स वः कर्ता समस्तावरणक्षयम् ५४एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ ।यतो यस्मिन्यथा चोभौ सर्वव्यापिन्यवस्थितौ ५५परः पराणां परमः स एकः पुरुषोत्तमः ।यस्याभिन्नमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ५६तमाराध्य जगन्नाथं मोक्षकारणमव्यक्तम् ।अचिन्त्यमपरिग्रहं क्रियायोगेन मुच्यते ५७इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः ।नराणामुपकाराय योगशास्त्राणि चक्रिरे ।क्रियायोगपराणीह मुक्तिकार्याण्यनेकशः ५८आराध्यते जगन्नाथो यदनुष्ठानतत्परैः ।परमात्मा हृषीकेशः सर्वेशः सर्वभावनः ५९तानि ते नृपशार्दूल सर्वपापहराण्यहम् ।वक्ष्यामि श्रूयतामन्यद्रहस्यमिदमुत्तमम् ६०संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् ।उत्तारमिच्छतां तस्माद्भृशं यन्नान्तरैरपि ।विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम् ६१उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम् ।भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ६२एवमेकाग्रचित्तस्त्वं संश्रितो मधुसूदनम् ।जन्ममृत्युजराग्राहं संसाराम्भस्तरिष्यसि ६३अनन्तमीड्यं पुरुषं पुराणं जगद्विधातारमजं जनित्र्! यम् ।समाश्रिता ये हरिमीशितारं तेषां भवो नास्ति हि मुक्तिभाजाम् ६४इति विष्णुधर्मेषु क्रियायोगप्रवृत्तिः । N/A References : N/A Last Updated : February 05, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP