संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ८४ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ८४ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ८४ Translation - भाषांतर अथ चतुरशीतितमोऽध्याहः ।वसिष्ठ उवाच ।शृणुष्व च महीपाल व्रतं विष्णुपदत्रयम् ।सर्वपापप्रशमनं यज्जगाद पुरा हरिः १प्राचेतसाय दक्षाय दक्षश्चाह विवस्वते ।विवस्वानलसिध्राय अलसिध्रोऽसिताय च २असितेन समाख्यातमल्पायासं महाफलम् ।तदिदं श्रूयतां सम्यग्व्रतं विष्णुपदत्रयम् ३दक्षः प्रजापतिः पूर्वं विष्णुमाराध्य पृष्टवान् ।बहुशस्तु विपन्नायां सृष्टावरिनिसूदन ४दक्ष उवाच ।भगवन्सर्वकऋत्वं ममादिष्टं स्वयम्भुवा ।ब्रह्मणा देवदेवेश तवादेशेन केशव ५विपन्ना च जगन्नाथ मम सृष्टिः कृता कृता ।पूर्वकर्मविपाकेन व्याकुलश्चास्मि चेतसा ६यथा च देव मुच्येय अस्मात्संसारसङ्कटात् ।विषयासङ्गविषमात्तन्ममाज्ञापयाच्युत ७वसिष्ठ उवाच ।इत्येवमुक्तो दक्षेण देवदेवो जनार्दनः ।आचष्ट दुःखक्षयदं व्रतं विष्णुपदत्रयम् ८सर्वारम्भविनिष्पत्तिकारकं पापनाशनम् ।संसारोच्छेदकं धीरैराचीर्णं स्थिरबुद्धिभिः ९तदहं तव राजेन्द्रव्रतानामुत्तमोत्तमम् ।कथयामि समाचष्ट यथा पूर्वं ममासितः १०आषाढे मासि पूर्वासु तथाषाढासु पार्थिव ।समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः ११पुष्पैर्हृद्यैस्तथा धूपैर्गन्धैः सागरुचन्दनैः ।यथाविभवतश्चान्यैरन्नैर्वासोभिरेव च १२क्षीरस्नेहस्थितं तद्वत्पैष्टं विष्णुपदद्वयम् ।समभ्यर्च्य यथान्यायं केशवस्याग्रतो न्यसेत् १३यवांश्च दद्याद्विप्राय भूगतिः प्रीयतामिति ।नक्तं भुञ्जीत राजेन्द्रहविष्यान्नं सुसंस्कृतम् १४तथोत्तरास्वाषाढासु श्रावणे मासि मानवः ।तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् १५विप्राय च यवान्दद्यात्प्रीणयित्वा च भूगतिम् ।नक्तं भूञ्जीत राजेन्द्रनरो योषिदथापि वा १६प्राप्ते भाद्रपदे मासि पूर्वभद्रपदासु च ।तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् १७विप्राय च यवान्दत्त्वा प्रीणयित्वा भुवोगतिम् ।भुञ्जीत गोरसप्रायं नरो योषिदथापि वा १८तद्वदाश्वयुजे दानं तद्वद्गोविन्दपूजनम् ।पदद्वयस्य पूजां च प्रीणनं च भुवोगतेः १९नक्तं भुञ्जीत गोरसं मौनमास्थितः ।स्त्री वा राजेन्द्रपूर्वासु तथा भद्रपदासु वै २०फाल्गुने फल्गुनी पूर्वा भवती ह यदा नृप ।त्रिविक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत् २१पदद्वयं च देवस्य सम्यगभ्यर्च्य पार्थिव ।हिरण्यं दक्षिणां दत्त्वा स्वर्गतिः प्रीयतामिति २२नक्तं भुञ्जीत राजेन्द्रवह्निपाकविवर्जितम् ।एष एवोत्तरायोगे चैत्रे मासे विधिः स्मृतः २३एतज्जगाद गोविन्दः पुरा दक्षाय पृच्छते ।सर्वपापहरं पुण्यं व्रतं विष्णुपदत्रयम् २४यथोक्तमेतद्यो भक्तो करोति नृपसत्तम ।सर्वकामानवाप्नोति केशवस्य वचो यथा २५अपुत्रो लभते पुत्रमपतिर्लभते पतिम् ।समागमं प्रोषितैश्च तथा प्राप्नोति बान्धवैः २६द्रव्यमैश्वर्यमारोग्यं सौभाग्यं चारुरूपताम् ।प्राप्नुवन्त्यखिलानेतान्पूजयित्वा पदत्रयम् २७यान्यान्कामान्नरः स्त्री वा हृदयेनाभिवाञ्छन्ति ।तांस्तांश्चाप्नोति निष्कामो विष्णुलोकं च गच्छति २८पूर्वं कृत्वापि पापानि नरः स्त्री वा नराधिप ।पदत्रयव्रतं चीर्त्वा मुच्यते सर्वकिल्बिषैः २९इति विष्णुधर्मेषु विष्णुपदत्रयम् । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP