संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ३५ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ३५ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ३५ Translation - भाषांतर अथ पञ्चत्रिंशोऽध्यायः ।दाल्भ्य उवाच ।अनन्तस्याप्रमेयस्य व्यापिनः परमात्मनः ।नाम्नां नक्षत्रभेदेन तिथिभेदेन वा द्विज १दानभेदेन चाख्यातो विभिन्नफलदस्त्वया ।विशेषः क्षेत्रभेदेन कथ्यतां यदि विद्यते २यथ र्क्षतिथिभेदेन तेषामेव पुनः पुनः ।विशेषः कथितो नाम्नां विशेषफलदायकः ।तथा क्षेत्रविशेषेण भेदं नामकृतं वद ३पुलस्त्य उवाच ।शृणु दाल्भ्य यथाख्यातमर्जुनाय महात्मने ।प्रणिपातप्रसन्नेन विष्णुना प्रभविष्णुना ४कृते भारावतरणे निवृत्ते भारते रणे ।आगम्य शिबिरं विष्णू रथस्थः प्राह फाल्गुनम् ५इषुधीगाण्डिवं चैव समादाय त्वरान्वितः ।अवतीर्य रथाद्वीर दूरे तिष्टः धनञ्जय ६अवरोक्ष्याम्यहं पश्चादवतीर्णे ततस्त्वयि ।एतत्कुरु महाबाहो मा विलम्बस्व फाल्गुन ७पुलस्त्य उवाच ।एवमुक्तस्तथा चक्रे वाक्यं पार्थो गदाधृतः ।अवारोहत्ततः पश्चात्स्वयमेव जनार्दनः ८अवतीर्णे जगन्नाथे स्वसमुत्थेन वह्निना ।जज्वाल स रथः सद्यो भस्मीभूतश्च तत्क्षणात् ।सोपस्करपताकोऽथ सध्वजः सह वाजिभिः ९सच्छत्त्रो वह्निना सद्यो रथो भस्मलवीकृतः ।वह्निना च यथा काष्ठं सद्यो भस्मलवीकृतम् १०तदद्भुतं महद्दृष्ट्वा पार्थः पप्रच्छ केशवम् ।हृष्टरोमा द्विजश्रेष्ठ भयविस्मयगद्गदः ११अर्जुन उवाच ।आश्चर्यं पुरुषव्याघ्र किमेतन्मधुसूदन ।विनाग्निना रथोऽयं मे दग्धस्तृणचयो यथा १२भगवानुवाच ।भीष्मद्रोणकृपादीनां कर्णादीनां च फाल्गुन ।दग्धोऽस्त्रैर्विविधैरेष पूर्वमेव रथस्तव १३मदधिष्ठितत्वात्कौन्तेय न शीर्णोऽयं तदाभवत् ।प्रत्यहन्निशि चक्रेण मया न्यस्तेन रक्षितः १४सोऽयं दग्धो महाबाहो त्वय्यद्य कृतकर्मणि ।मयावतारिते चक्रे मा पार्थ कुरु विस्मयम् १५अर्जुन उवाच ।कं भवन्तमहं विद्यामतिमानुषचेष्टितम् ।कर्मणात्यद्भुतेनाग्निर्धूमेनैवेह सूचितः १६भगवानुवाच ।पूर्वमेव यथाख्यातं रणारम्भे तवार्जुन ।कालोऽस्मि लोकनाशाय प्रवृत्तोऽहं यथाधुना १७तन्मया साधितं कार्यं त्रिदशानां तथा भुवः ।भारावतरणार्थाय मम जन्म महीतले १८पुलस्त्य उवाच ।एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम् ।तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः १९अर्जुन उवाच ।नमोऽस्तु ते चक्रधरोग्ररूप ।नमोऽस्तु ते शार्ङ्गधरारुणाक्ष ।नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र । नमोऽस्तु विभ्रान्तगदान्तकारिन् २०भयेन सन्नोऽस्मि सवेपथेन नाङानि मे देव वशं प्रयान्ति ।वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति २१कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन् ।क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय २२प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय ।स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् २३न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः ।पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप २४स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव ।यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् २५सा मे स्मृतिर्दर्शनभाषनादिप्रकुर्वतो नाथ गता प्रणाशम् ।कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त २६कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप ।आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् २७ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ ।विष्णुः स्थितौ पालनबद्धकक्षो रुद्रोभवान्संहरणे प्रजानाम् २८एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि ।वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव २९यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम् ।परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ३०यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः ।तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ३१मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु ।दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ३२हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः ।काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ३३त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम ।ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ३४यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूअः ।नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ३५बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम् ।तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषो मनुष्यतायाः ३६तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्यजातः ।पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ३७अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम् ।त्वया यथा स्तन्यमतीवबाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ३८विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मनुषोऽन्यः ।ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ३९सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम् ।दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ४०प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः ।तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ४१बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः ।सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ४२कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः ।स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ४३हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः ।जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ४४स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः ।मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ४५हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः ।येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ४६इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः ।स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः! ४७एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम् ।मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ४८त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश ।एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ४९प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो ।मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ५०न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य ।यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ५१देवदेव जगन्नाथ सर्वपापहरो भव ।हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ५२प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च ।त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ५३वयमन्ये च गोविन्द नराः क्रीडनकास्तव ।मद्विधैः करणैर्देव करोषि स्थितिपालनम् ५४यदत्र सदसद्वापि किञ्चिदुच्चारितं मया ।भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ५५इति विष्णुधर्मेष्वर्जुनस्तवो नाम पञ्चत्रिंशोऽध्यायः । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP