संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ३९ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ३९ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ३९ Translation - भाषांतर अथैकोनचत्वारिंशोऽध्यायः ।दाल्भ्य उवाच ।कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम ।अमङ्गल्येषु सर्वेषु यज्जप्तव्यं तदुच्यताम् १येनारम्भाश्च सिद्ध्यन्ति दुःस्वप्नं चोपशाम्यति ।अमङ्गलानां सर्वेषां प्रतिघातश्च जायते २पुलस्त्य उवाच ।जनार्दनं भूतपतिं जगद्गुरुं ।स्मरन्मनुष्यः सततं महामुने ।दुष्टान्यशेषाण्यपहन्ति साधयत्य् ।अशेषकार्याणि तथा यदीच्छति ३शृणुष्व चान्यद्वदतो ममाखिलं वदामि यत्ते द्विजवर्य मङ्गलम् ।सर्वार्थसिद्धिं प्रददाति यः सदा निहन्त्यशेषाणि च पातकानि ४प्रतिष्ठितं यत्र जगच्चराचरं जगच्च यो यो जगतश्च हेतुः ।जगच्च पात्यत्ति च यः स सर्वदा ममास्तु मङ्गल्यविवृद्दये हरिः ५व्योमाम्बुवाय्वग्निमहीस्वरूपैर्विस्तारवान्योऽणुतरोऽणुभागात् ।स स्थूलसूक्ष्मः सततं सुरेश्वरोममास्तु मङ्गल्यविवृद्धये हरिः ६यस्मात्परस्तात्पुरुषादनन्ताद् ।अनादिमध्यादखिलं न किञ्चित् ।स हेतुहेतुः परमेश्वरेश्वरो ।ममास्तु मङ्गल्यविवृद्धये हरिः ७हिरण्यगर्भाच्युतरुद्ररूपी ।सृजत्यशेषं परिपाति हन्ति ।गुणाश्रयी यो भगवान्स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः ८परः सुराणां परमोऽसुराणां ।परो मुनीनां परमो यतीनाम् ।परः समस्तस्य च यः स देवो ।ममास्तु मङ्गल्यविवृद्धये हरिः ९ध्यातो यतीनामपकल्मषैर्यो ।ददाति मुक्तिं परमेश्वरेश्वरः ।मनोभिराद्यः पुरुषः स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः १०सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् ।स शुद्धसत्त्वः परमेश्वरेश्वरो ।ममास्तु मङ्गल्यविवृद्धये हरिः ११यन्नामकीर्तनतो विमुच्यते ।अनेकजन्मार्जितपापसञ्चयैः ।पापेन्धनाग्निः स सदैव निर्मलो ।ममास्तु मङ्गल्यविवृद्धये हरिः १२येनोद्धृतेयं धरणी रसातलाद् ।अशेषसत्त्वस्थितिकारणादिदम् ।बिभर्ति विश्वं जगतः स मूलवान् ।ममास्तु मङ्गल्यविवृद्धये हरिः १३पादेषु वेदा जठरे चराचरं ।रोमस्वशेषा मुनयो मुखे मखाः ।यस्येश्वरेशस्य स सर्वदा प्रभुर् ।ममास्तु मङ्गल्यविवृद्धये हरिः १४समस्तयज्ञाङ्गमयं वपुर्विभोर् ।यस्याङ्गमीशेश्वरसंस्तुतस्य ।वराहरूपो भगवान्स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः १५विक्षोभ्य सर्वोदधितोयसम्पदं ।दधार धात्रीं जगतश्च योद्भवः ।यज्ञेश्वरो यज्ञपुमान्स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः १६पातालमूलेश्वरभोगिसंहतौ ।विन्यस्य पादौ पृथिवीं च बिभ्रतः ।यस्योपमानं न बभूव सोऽच्युतो ।ममास्तु मङ्गल्यविवृद्धये हरिः १७विघर्घरं यस्य च बृंहतो मुहुः ।सनन्दनाद्यैर्जनलोकसंस्थितैः ।श्रुतं जयेत्युक्तिपरैः स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः १८एकार्णवाद्यस्य महीयसो महीम् ।आदाय वेगेन समुत्पतिष्यतः ।नुतं वपुर्योगिवरैः स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः १९हतो हिरण्याक्षमहासुरः पुरा ।पुराणपुंसा परमेण येन ।वराहरूपः स पतिः प्रजापतेर् ।ममास्तु मङ्गल्यविवृद्धये हरिः २०दंष्ट्राकरालं सुरभीतिनाशनं ।कृत्वा वपुर्दिव्यनृसिंहरूपिणं ।त्रातं जगद्येन स सर्वदा प्रभुर् ।ममास्तु मङ्गल्यविवृद्धये हरिः २१दैत्येन्द्रवक्षःस्थलदारदारुणैः ।करोरुहैः शत्रुरुजानुकारिभिः ।चिच्छेद लोकस्य भयानि चाव्ययो ।ममास्तु मङ्गल्यविवृद्धये हरिः २२दन्तान्तदीप्तिद्युतिनिर्मलाणि ।चकार सर्वाणि दिशं मुखानि ।निनादवित्रासितदानवो ह्यसौ ।ममास्तु मङ्गल्यविवृद्धये हरिः २३यन्नामसङ्कीर्तनतो महाभयाद् ।विमोक्षमाप्नोति न संशयं नरः ।समस्तलोकार्तिहरो नृकेसरी ।ममास्तु मङ्गल्यविवृद्धये हरिः २४सटाकलापभ्रमणानिलहताः ।स्फुटन्ति यस्याम्बुधराः समन्ततः ।स दिव्यसिंहः स्फुरिताकुलेक्षणो ।ममास्तु मङ्गल्यविवृद्धये हरिः २५यदीक्षणज्योतिषि रश्मिमण्डलं ।प्रलीनमेव न रराज भास्वतः ।कुतः शशाङ्कस्य स सिंहरूपधृ ।ममास्तु मङ्गल्यविवृद्धये हरिः २६द्रवन्ति दैत्याः प्रणमन्ति देवता ।नश्यन्ति रक्षांस्यपयान्ति चारयः ।यत्कीर्तनात्सोऽद्भुतरूपकेसरी ।ममास्तु मङ्गल्यविवृद्धये हरिः २७अशेषदेवेशनरेश्वरेश्वरैः ।सदा स्तुतं यच्चरितं महाद्भुतम् ।स सर्वलोकार्तिहरो महाहरिर् ।ममास्तु मङ्गल्यविवृद्धये हरिः २८ऋक्कारितं यो यजुषातिशान्तिमत् ।सामध्वनिध्वस्तसमस्तपातकम् ।चक्रे जगद्वामनकः स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः २९यत्पादविन्यासपवित्रतां मही ।ययौ वियदृग्यजुषामुदीरणात् ।स वामनो दिव्यशरीरधृक् सदा ।ममास्तु मङ्गल्यविवृद्धये हरिः ३०यस्मिन्प्रयाते सुरभूभृतोऽध्वरं ।ननाम खेदादवनिः ससागरा ।स वामनः सर्वजगन्मयः सदा ।ममास्तु मङ्गल्यविवृद्धये हरिः ३१महाद्युतौ दैत्यपतेर्महाध्वरं ।यस्मिन्प्रविष्टे क्षुभितं महासुरैः ।स वामनोऽन्तस्थितसप्तलोकधृङ् ।ममास्तु मङ्गल्यविवृद्धये हरिः ३२समस्तदेवेष्टिमयं महाद्युतिर् ।दधार यो रूपमतीन्द्रियं प्रभुः ।त्रिविक्रमाक्रान्तजगत्त्रयः सदा ।ममास्तु मङ्गल्यविवृद्धये हरिः ३३सङ्घैः सुराणां दिवि भूतले स्थितैस् ।तथा मनुष्यैर्गगने स सर्वदा ।स्तुतः क्रमाद्यः प्रददे स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः ३४क्रान्त्वा धरित्रीं गगनं तथा दिवं ।मरुत्पतेर्यः प्रददौ त्रिविष्टपम् ।स देवदेवो भुवनेश्वरेश्वरो ।ममास्तु मङ्गल्यविवृद्धये हरिः ३५अनुग्रहं चापि बलेरनुत्तमं ।चकार यश्चेन्द्रपदोपलक्षणं ।सुरांश्च यज्ञस्य भुजः स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः ३६रसातलाद्येन पुरा समाहृताः ।समस्तवेदा वरवाजिरूपिणा ।स कैटभारिर्मधुसूदनो महान् ।ममास्तु मङ्गल्यविवृद्धये हरिः ३७निःक्षत्रियां यश्च चकार मेदिनीम् ।अनेकशो बाहुवनं तथाछिनत् ।यः कार्तवीर्यस्य स भार्गवोत्तमो ।ममास्तु मङ्गल्यविवृद्धये हरिः ३८निहत्य वालिं च कपीश्वरं हि यो ।निबध्य सेतुं जलधौ दशाननम् ।जघान चान्यान्रजनीचरानसौ ।ममास्तु मङ्गल्यविवृद्धये हरिः ३९चिक्षेप बालः शकटं बभञ्ज यो ।यमलार्जुनौ कंसमरिं जघान ।ममर्द चाणूरमुखं स सर्वदा ।ममास्तु मङ्गल्यविवृद्धये हरिः ४०प्रातः सहस्रांशुमरीचिनिर्मलं ।करेण बिभ्रद्भगवान्सुदर्शनम् ।कौमोदकीं चापि गदामनुत्तमां ।ममास्तु मङ्गल्यविवृद्धये हरिः ४१हिमेन्दुकुन्दस्फटिकाभ्रकोमलं ।मुखानिलापूरितमीश्वरेश्वरः ।मध्याह्नकाले च स शङ्खमुत्तमम् ।ममास्तु मङ्गल्यविवृद्धये हरिः ४२तथापराह्ने प्रविकासिपङ्कजं ।वक्षःस्थलेन श्रियमुद्वहद्विभुः ।विस्तारिपद्मोत्पलपत्रलोचनो ।ममास्तु मङ्गल्यविवृद्धये हरिः ४३सर्वेषु कालेषु समस्तदेशेष्व् ।अशेषकार्येषु तथेश्वरेश्वरः ।सर्वैः स्वरूपैर्भगवाननादिमान् ।ममास्तु मङ्गल्यविवृद्धये हरिः ४४एतत्पठन्दाल्भ्य समस्तपापैर् ।विमुच्यते विष्णुपरो मनुष्यः ।सिध्यन्ति कार्याणि तथास्य सर्वाण्य् ।अर्थानवाप्नोति तथा यथेष्टम् ४५दुःस्वप्नं प्रशममुपैति पठ्यमाने ।स्तोत्रेऽस्मिञ्श्रवणविधौ सदोत्थितस्य ।प्रारम्भो द्रुतमुपयाति सिद्धिमीशः ।पापानि क्षपयति चास्य वासुदेवः ४६मङ्गल्यं परममिदं सदार्थसिद्धिं ।निर्विघ्न त्वधिकफलं सदा ददाति ।किं लोके तदिह परत्र चास्ति पुंसाम् ।यद्विष्णुप्रवणधिया न दाल्भ्य साध्यम् ४७देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः ।सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः ।वैदेहः परमपदं प्रसाद्य विष्णुं ।सम्प्राप्तः सकलफलप्रदो हि विष्णुः ४८सर्वारम्भेषु दाल्भ्यैतद्दुःस्वप्नेषु च पण्डितः ।जपेदेकमतिर्विष्णौ तथामङ्गल्यदर्शने ४९शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः ।कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम् ५०हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः ।करोत्यखिलरूपैश्च रक्षामक्षतशक्तिधृक् ५१इति विष्णुधर्मेषु मङ्गल्यस्तवः । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP