संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९३

विष्णुधर्माः - अध्याय ९३

विष्णुधर्माः


अथ त्रिनवतितमोऽध्यायः ।
शौनक उवाच ।
इदं च शृणु भूपाल नश्यते दुर्विचिन्तितम् ।
येनोपायेन वै पुंसां योषितां वाप्यसंशयम् १

परदारपरद्रव्यजीवहिंसादिके सदा ।
प्रवर्तते नृणां चित्तं तदेतदभिसंस्मरेत् २

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः ।
जिष्णवे जिष्णवे सर्वं जिष्णवे जिष्णवे नमः ३

नमामि विष्णुं बुद्धिस्थमहङ्कारगतं हरिम् ।
चित्तस्थमीशमव्यक्तमनन्तमपराजितम् ।
विष्णुमीड्यमशेषेशमनादिनिधनं विभुम् ४

विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ५

करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च ।
तत्पापं नाशमायातु तस्मिन्नेव विचिन्तिते ६

ध्यातो हरति यः पापं स्वप्ने दृष्टः शुभावहः ।
तमुपेन्द्रमहं विष्णुं प्रणतोऽर्तिहरं हरिम् ७

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।
हस्तावलम्बदं विष्णुं प्रणतोऽस्मि परात्परम् ८

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ९

नृसिंहानन्त गोविन्द भूतभावन केशव ।
दुरुक्तं दुष्कृतं ध्यातं प्रशमाग्र्य नमोऽस्तु ते १०

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।
नरकावहमत्युग्रं तच्छमं नय केशव ११

ब्रह्मण्यदेव गोविन्द परमार्थ परायण ।
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत १२

यच्चापराह्ने पूर्वाह्ने मध्याह्ने च तथा निशि ।
कायेन मनसा वाचा कृतं पापमजानता १३

जानता वा हृषीकेश पुण्डरीकाक्ष माधव ।
नामत्रयोच्चारणतस्तत्प्रयातु मम क्षयम् १४

शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम् ।
पापं प्रशमयाद्य त्वं वाक्कृतं मम माधव १५

यद्व्रजन्यत्स्वपन्भुञ्जन्यदुत्तिष्ठन्यदास्थितः ।
कृतवांश्चापि यच्चाहं कायेन मनसा गिरा १६

महत्स्वल्पमतिस्थूलं कुयोनिनरकावहम् ।
आतु प्रशमं सर्वं वासुदेवस्य कीर्तनात् १७

परं ब्रह्म परं धाम पवित्रं परमं च यत् ।
तस्मिन्सङ्कीर्तिते विष्णोः पदे पापं प्रणश्यतु १८

सूरयो यत्प्रवेक्ष्यन्ति ह्यपुनर्भवकाङ्क्षिणः ।
ममाखिलं दह त्वं हि तद्विष्णोः परमं पदम् १९

यत्प्राप्य न निन्वर्तन्ते गन्धस्पर्शादिवर्जितम् ।
पापं प्रणाशयत्वद्य तद्विष्णोः परमं पदम् २०

सदसद्यत्तथा व्यक्ताव्यक्तरूपमजाजरम् ।
प्रणमामि जगद्धाम तद्विष्णोः परमं पदम् २१

शारीरे मानसे चैव पापे वाग्जे च पार्थिव ।
कृते सम्यङ्नरो भक्त्या पठेच्छ्रद्धासमन्वितः ।
मुच्यते सर्वपापेभ्यः कृष्णनामप्रकीर्तनात् २२

उच्चार्यमाने चैतस्मिन्देवदेवस्य संस्तवे ।
विलयं पापमायाति भाण्डमाममिवाम्भसि २३

तस्मात्सञ्चिन्तिते पापे समनन्तरमेव ते ।
जप्तव्यमेतत्पापस्य प्रशमाय महीपते २४

इति विष्णुधर्मेषु द्वितीयः पापप्रशमनस्तवः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP