संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय २५ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय २५ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय २५ Translation - भाषांतर अथ पञ्चदशोऽध्यायः ।दाल्भ्य उवाच ।पाषण्डिभिरसंस्पर्शमसम्भाषणमेव च ।विष्णोराराधनपरैर्नरैः कार्यमुपोषितैः १किं ब्रूहि लक्षणं तेषां यादृशान्वर्जयेद्व्रती ।कथञ्चिद्यदि संलापदर्शनस्पर्शनादिकम् २उपोषितानां पाषण्डैर्नराणां विप्र जायते ।किं तत्र वद कर्तव्यं येनाखण्डंव्रतं भवेत् ३पुलस्त्य उवाच ।श्रुतिस्मृत्युदितं धर्मं वर्णाश्रमविभागजम् ।उल्लङ्घ्य ये प्रवर्तन्ते स्वेच्छया कूटयुक्तिभिः ४विकर्माभिरता मूढा युक्तिप्रागल्भ्यदुर्मदाः ।पाषण्डिनस्ते दुःशीला नरकार्हा नराधमाः ५तांस्तु पाषण्डिनः पापान्विकर्मस्थांश्च मानवान् ।वैडालव्रतिकांश्चैव नित्यमेव तु नालपेत् ६सम्भाष्यैताञ्शुचिषदं चिन्तयेदच्युतं बुधः ।इदं चोदाहरेत्सम्यक् कृत्वा तत्प्रवणं मनः ७शारीरमन्तःकरणोपघातं वाचश्च विष्णुर्भगवानशेषम् ।शमं नयत्वस्तु ममेह शर्म पापादनन्ते हृदि सन्निविष्टे ८अन्तःशुद्धिं बहिःशुद्धिं शुद्धोऽन्तर्मम योऽच्युतः ।स करोत्वमले तस्मिञ्शुचिरेवास्मि सर्वदा ९बाह्योपघातादनघो बोद्धा च भगवानजः ।शुद्धिं नयत्वनन्तात्मा विष्णुश्चेतसि संस्थितः १०एतत्सम्भाष्य जप्तव्यं पाषण्डिभिरुपोषितैः ।नमः शुचिषदेत्युक्त्वा सूर्यं पश्येत वीक्षितैः ११श्रूयते च पुरा मर्त्याः स्वेच्छया स्वर्गगामिनः ।बभूवुरनघाः सर्वे स्वधर्मपरिपालनात् १२देवाश्च बलिनो मर्त्यैर्वर्णकर्मण्यनुव्रतैः ।यज्ञाध्ययनदानेषु वर्तमानैश्च मानवैः १३दैतेयाश्च पराभावमतुष्टावसुरा ययुः ।ततश्च षण्डो मर्कश्च दैत्येन्द्राणां पुरोहितौ ।चक्रतुः कर्म देवानां विनाशायातिभीषणम् १४तत्रोत्पन्नोऽतिकृष्णाङ्गस्तमःप्रायोऽतिदारुणः ।दम्भाधारः शाठ्यसारो निद्राप्रकृतिरुल्वणः १५महामोह इति ख्यातः कृत्यरूपो विभीषणः ।चतुर्धा स विभक्तश्च ताभामत्र महीयते १६वेददेवद्विजातीनामेकांशेन स निन्दनम् ।करोत्यन्येन न रतिं योगकर्मसु विन्दति १७विकर्मण्यपरेणापि संयोजयति मानवान् ।ज्ञानापहारमन्येन करोति द्विजसत्तम १८ज्ञानबुद्ध्या तथाज्ञानं गृह्णात्यज्ञानमोहितः ।वेदवादविरोधेन या कथा सास्य रोचते १९एवं स तु महामोहः षण्डमर्कोपपादितः ।दम्भादिदूषितोऽधर्मस्वरूपोऽतिभयङ्कर २०स लोकान्विविधोपायैर्लोकेष्वेव व्यवस्थितः ।मोहाभिभवनिःसाराण्करोति द्विजसत्तम २१तन्मोहितानामचिराद्विवेको याति सङ्क्षयम् ।क्षीणज्ञाना विकर्माणि कुर्वन्त्यहरहो द्विज २२निजवर्णात्मकं धर्मं परित्यज्य विमोहिताः ।धर्मबुद्ध्या ततः पापं कुर्वन्त्यज्ञानदुर्मदाः २३ज्ञानावलेपस्तत्रैव ततस्तेषां प्रजायते ।सुहृद्भिर्वार्यमाणास्ते पण्डितैश्च दयालुभिः ।प्रयच्छन्त्युत्तरं ऊढाः कूटयुक्तिसमन्वितम् २४ततस्ते स्वयमात्मानमन्यं चाल्पमतिं नरम् ।विकर्मणा योजयन्तश्च्यवयन्ति स्वधर्मतः २५पाषण्डिनो दुराचाराः परान्नगुणवादिनः ।असंस्कृतान्नभोक्तारो व्रात्याः संस्कारवर्जिताः २६पाषण्डाः पापसङ्कल्पा दाम्भिकाः शठबुद्धयः ।वर्णसङ्करकर्तारो मायाव्याजोपजीविनः ।निःशौचा वक्रमतयो नान्यदस्तीतिवादिनः २७एवंविधास्ते सन्मार्गाद्वेदप्रोक्ताद्बहिःस्थिताः ।क्रियाकलापं निन्दन्त ऋग्यजुःसामसञ्ज्ञितम् ।आत्मानं च परांश्चैव कुर्वन्ति नरकस्थितान् २८तेषां दर्शनसम्भाषस्पर्शनानि नरैः सदा ।परित्याज्यानि दृष्टे च प्रोक्तः सम्भाषणे च यः ।संस्पर्शे च बुधः स्नात्वा शुचिः शुचिषदं स्मरेत् २९भवत्यतः सदैवैषामालापस्पर्१शनं त्यजेत् ।पुण्यकामो महाभागः किं पुनर्यदुपोषितः ३०यतो हि निन्दिते कर्मण्यभ्यासो रतिरेव च ।पाषण्डिनामशेषाणामप्रीतिर्वेदकर्मणि ।ते ह्यधोगामिनः प्रोक्ता आसुरं भावमाश्रिताः ३१इति विष्णुधर्मेषु पाषण्डालापप्रायश्चित्तम् । N/A References : N/A Last Updated : February 19, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP