सूर्याष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
धौम्येन तु यथापूर्वं पार्थाय सुमहात्मने ॥४॥
नामाष्टशतमाख्यातं तच्छृणुष्व महामते ।
ॐ सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः ॥५॥
गभस्तिमानजः कालो मृत्युर्द्धाता प्रभाकरः ।
पृथिव्यापश्च तेजश्च खं वायुश्च परायणः ॥६॥
सोमो बृहस्पतिः शुक्रो बुधोंऽगारक एव च ।
इन्द्रो विवस्वान्दीप्तांशुः शुचिः सौरिः शनैश्चरः ॥७॥
ब्रह्मा रुद्रश्च विष्णुश्च स्कन्दो वैश्रवणो यमः ।
वैद्युतो जाठरश्चाग्निरिन्धनस्तेजसां पतिः ॥८॥
धर्मध्वजो वेदकर्त्ता वेदाङ्गो वेदवाहनः ।
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ॥९॥
कलाकाष्ठामुहूर्त्ताश्च पक्षा मासा अहर्निशाः ।
संवत्सरकरोऽश्वस्थः कालचक्रो विभावसुः ॥१०॥
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ।
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ॥११॥
वरुणः सागरोंशुश्च जीवन्तो जीवनोऽरिहा ।
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः ॥१२॥
स्रष्टा संवर्त्तको वह्निः सर्वस्यादिकरोऽमलः ।
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ॥१३॥
जयो विषादो वरदः सर्वधातुनिषेवितः ।
समः सुवर्णो भूतादिः शीघ्रगः प्राणधारकः ॥१४॥
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ।
द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः ॥१५॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।
देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥१६॥
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।
नाम्नामष्टोत्तरशतं प्रोक्तं शक्रेण धीमता ॥१७॥
इति श्रीस्कन्दपुराणे प्रभासखण्डे प्रभासक्षेत्रमाहात्म्ये
एकोनाशीत्यधिकद्विशततमाध्यायान्तर्गतं शक्रप्रोक्तं
सूर्याष्टोत्तरशतनामस्तोत्रं समाप्तम् ।
N/A
References : N/A
Last Updated : December 30, 2025

TOP