संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
कालिकाशतनामस्तोत्रम्

कालिकाशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


(महानिर्वाणतन्त्रे सप्तमोल्लासान्तर्गते)
अन्यनामानि -
 आद्याकालीस्वरूपाख्यं शतनामस्तोत्रम्
 ककारकूटस्तवः
 आद्याकालिकाशतनामस्तोत्रम्

श्रीसदाशिव उवाच ।
शृणु देवि जगद्वन्द्ये स्तोत्रमेतदमुत्तमम् ।
पठनाच्छ्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥

असौभाग्य प्रशमनं सुखसम्पद्विवर्धनम् ।
अकालमृत्युहरणं सर्वापद्निवारणम् ॥

श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् ।
स्तवस्यास्य प्रसीदेन त्रिपुरारिरहं प्रिये ॥(प्रसादेन, शिवे)
स्तोत्रस्यास्य ऋषिर्देवि ! सदाशिव उदाह्दृतः ।
छन्दोऽनुष्टुब्देवताऽऽद्या कालिका परिकीर्तिता ।
धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्त्तितः ॥

अथ शतनामस्तोत्रम् ।
ॐ अस्य करारकूटघटितं श्रीआद्याकालिकाशतनामस्तोत्रमन्त्रस्य
श्रीसदाशिवऋषिः । अनुष्टुप्छन्दः । श्री आद्याकालिका देवता ।
धर्मकामार्थमोक्ष सिध्यर्थे जपे विनियोगः ॥

ॐ ह्रीँ काली श्रीँ कराली च क्रीँ कल्याणी कलावती ।
कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥१॥

कालिका कालमाता च कालानलसमद्युतिः ।
कपर्दिनी करालास्या करुणामृतसागरा ॥२॥

कृपामयी कृपाधारा कृपापारा कृपागमा ।
कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥३॥

कालरात्रिः कामरूपा कामपाशविमोचिनी । (विमोचनी)
कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥४॥

कुमारीपूजनप्रीता कुमारीपूजकालया ।
कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥५॥

कदम्बवनसञ्चारा कदम्बवनवासिनी ।
कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥६॥

किशोरी कलकण्ठा च कलनादनिनादिनी ।
कादम्बरीपानरता तथा कादम्बरीप्रिया ॥७॥  (४०)
कपालपात्रनिरता कङ्कालमाल्यधारिणी ।
कमलासनसन्तुष्टा कमलासनवासिनी ॥८॥

कमलालयमध्यस्था कमलामोदमोदिनी ।
कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥९॥

कामरूपकृतावासा कामपीठविलासिनी ।
कमनीया कल्पलता कमनीयविभूषणा ॥१०॥

कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।
कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥११॥

कारणानन्दजापेष्टा कारणार्चनहर्षिता ।
कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥१२॥

कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला ।
कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥१३॥

कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।
कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥१४॥

कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता ।
कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥१५॥

कर्पूरसागरस्नाता कर्पूरसागरालया ।
कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥१६॥

कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ।
कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥१७॥

काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।
काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥१८॥

कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।
काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥१९॥

कामबीजजपानन्दा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनार्त्तिनाशिनी कुलकामिनी ॥२०॥

क्रीँ ह्रीँ श्रीँ मन्त्रवर्णेन कालकण्टकघातिनी ।  (१००)
इत्याद्याकालिकादेव्याः शतनाम प्रकीर्त्तितम् ।
ककारकूटघटितं कालीरूपस्वरूपकम् ॥२२॥

ककारकूटकीर्त्तनफलं -
पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ।
मन्त्रसिद्धिर्भवेदाषु तस्य काली प्रसीदति ॥१॥

बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ।
धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ॥२॥

पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ।
भौमावास्यानिशाभागे मपञ्चकसमन्वितः ॥३॥

पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ।
पठित्वा शतनामानि साक्षात् कालीमयो भवेत् ॥४॥

नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ।
विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ॥५॥

समुद्र इव गाम्भीर्ये बले च पवनोपमः ।
तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः ॥६॥

रूपे मूर्तिधरः कामो योषितां हृदयङ्गमः ।
सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ॥७॥

यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ।
तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ॥८॥

रणे राजकुले द्यूते विवादे प्राणसङ्कटे ।
दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ॥९॥

अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ।
ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ॥१०॥

बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने ।
दुस्तरे सलिले वापि पोते वातविपद्गते ॥११॥

विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ।
यः पठेच्छतनामानि दृढभक्तिसमन्वितः ॥१२॥

सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ।
न पापेभ्यो भयं तस्य न रोगेभ्यो भयं क्वचित् ॥१३॥

सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ।
तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ॥१४॥

स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ।
स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ॥१५॥

वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ।
तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ॥१६॥

दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ।
आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ॥१७॥

अष्टोत्तरशतावृत्या पुरश्चर्याऽस्य गीयते ।
पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥१८॥

शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ।
पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ।
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥१९॥

॥ इति महानिर्वाणतन्त्रे सप्तमोल्लासान्तर्गतं
 कालिकाशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP