रामनामाष्टोत्तरशतरामायणम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीपतिः शेषशयनो रक्ष(१)स्त्रस्तसुरस्तुतः ।
वितीर्णेष्टाभयवरः सत्यसन्धः सुराश्रयः ॥१॥
ऋष्यशृङ्गेष्टिसम्भूतः सूर्यवंशविभूषणः ।
चतु(२)र्मूतिर्दाशरथिः कौसल्येयोऽतिसुन्दरः ॥२॥
कैकेयीनन्दनो रामः सुमित्रानन्दवर्धनः ।
लक्ष्मणानुचरो विद्वान् वसिष्ठच्छात्रसत्तमः ॥३॥
कौशिकात्तधनुर्वेदः सर्वशस्त्रास्त्रविद्वरः ।
ताडका(३)स्वनिलाहीषुर्मखप्रत्यूहनाशनः ॥४॥
सुबाहुप्राणसंहर्ता मारीच(४)स्मयभञ्जनः ।
अहल्यांहो(५)नगपविः शतानन्दस्तवाञ्चितः ॥५॥
महेश्वरधनुर्भेत्ता जानकीप्राणवल्लभः ।
जामदग्न्याहङ्कृतिघ्नः पितृचित्तप्रसाधकः ॥६॥
गुर्वर्थत्यक्तराज्यश्रीर्दारानुजसमन्वितः ।
सुमन्त्रसूतः सत्वाढ्यो वल्कली गुहसत्कृतः ॥७॥
भरद्वाजाभ्यनुज्ञातश्चित्रकूटकृतस्थितिः ।
निवापविधि(६)सन्निष्ठो भरतार्पितपादुकः ॥८॥
लब्धात्रिसत्कृतिः श्रीमान् मुनिप्रणतिसादरः ।
विराधोद्धरणोत्साही शरभङ्ग(७)सभाजितः ॥९॥
सुतीक्ष्णकृतसत्कारः कुम्भसम्भवपूजितः ।
कृतपञ्चवटीवासो जटायुर्विहितादरः ॥१०॥
छिन्नशूर्पणखाघ्राणः खरघ्नो दूषणान्तकः ।
मायास्वर्णैणमारीचरक्षःप्राणापहारकः ॥११॥
यतिच्छद्मदशग्रीव(८)हृतप्राणप्रियाङ्गनः ।
दयिताविरहात्यार्त(९)सर्वकामिविडम्बकः ॥१२॥
स्वतातसखगृध्रेन्द्रसुदुरापगतिप्रदः ।
कबन्धबाहुबन्धच्छित् शबरीक्षण निर्वृतः ॥१३॥
पम्पातीरस्मृतप्राणप्रेयसीशोकविह्वलः ।
हनूमद्दर्शनप्रीतः सुग्रीवकृतसौहृदः ॥१४॥
प्रियोत्तरीयभूषेक्षास्पर्शानन्दनिमीलितः ।
सप्ततालभिदुद्दामवालिहृद्भेदनिष्टुरः ॥१५॥
सुग्रीवार्पितराज्यश्रीरङ्गजाङ्गदवत्सलः ।
प्रियान्वेषणनु(१०)न्नर्क्षकुञ्जरप्लवगर्षभः ॥१६॥
(११)स्तुततीर्णाब्धिदृष्टार्थदग्धलङ्काञ्जनाङ्गजः ।
नैकर्क्षवानरचमूशतकम्पितभूनगः ॥१७॥
शरण्यः शरणप्राप्तबिभीषणकृतोदयः ।
सेतुकृत्तीर्णवार्राशिः सामार्थप्रहिताङ्गदः ॥१८॥
रक्षःकक्षमहादावो मेघनादान्तकानुजः ।
कुम्भकर्णाद्रिवज्रेषुर्दशास्यगजकेसरिः ॥१९॥
दत्तदिव्यप्रियोपेतः पुष्पकाक्रमिताम्बरः ।
गुहविश्लेषतापघ्नो भरद्वाजाप्तसद्वरः ॥२०॥
भरतप्रियकृद्राजपौरगुर्वभिषेचितः ।
अगस्त्यादिमहर्षीड्यः सर्वप्राणिहितोद्यतः ॥२१॥
कृतप्रजातिकल्याणो व्य(१२)सुविप्रात्मजासुदः ।
शत्रुघ्नघातितात्युग्रद्विजारिलवणासुरः ॥२२॥
त्रिजगद्गीतसत्कीर्तिरेकदुर्मतिनिन्दितः ।
संत्यक्त(१३)सत्वसम्पन्नोदारदारसमागमः ॥२३॥
प्राचेतसाश्रमप्राप्ततेजःकुशलवात्मजः ।
अश्वमेधोत्सवावाप्तवाल्मीकिच्छात्रनन्दनः ॥२४॥
भूयोदिव्यमहीमग्नमहिलाविरहातुरः ।
पुत्राष्टकपृथग्दत्तराज्यः प्राज्यप्रसादकृत् ॥२५॥
शासना(१४)तिक्रमत्यक्तप्राणात्यधिकलक्ष्मणः ।
विहितस्वयशस्तुल्यप्रभञ्जनसुतस्थितिः ॥२६॥
आर्केन्दु(१५)भूमि स्वकथाबिभीषणकृताभयः ।
सुहृद्भरतशत्रुघ्नसुग्रीवात्मगतिप्रदः ॥२७॥
सर्वसत्वप्रियः पौरस्थितिसन्तानलोककृत् ।
विमानारोपिताशेषराष्ट्रायोध्याजनः प्रभुः ॥२८॥
पवित्रसेव्यचरितो निगमाद्य(१६)कविस्तुतः ।
नमन्(१७)मयूरमुदिरः पुण्यश्लोकशिखामणिः ॥२९॥
इति श्रीरामभद्रस्य नाम्नामष्टोत्तरं शतम् ।
रामायणपयोराशेरुद्धृतं परमामृतम् ॥३०॥
श्रीरामः जयति ॥
इति श्रीरामनन्दनमयूरेश्वरकृतं रामनामाष्टोत्तरशतरामायणं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 26, 2025

TOP