संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्

श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


अस्य श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ।
श्रीहरिहरपुत्रो देवता । ह्रीं बीजम् ।श्रीं शक्तिः । क्लीं कीलकम् ।
श्रीहरिहरपुत्रप्रीत्यर्थे जपे विनियोगः ॥

ह्रीं इत्यादिभिः षडङ्गन्यासः ॥

ध्यानम् ॥

त्रिगुणितमणिपद्मं वज्रमाणिक्यदण्डं
सितसुमशरपाशमिक्षुकोदण्डकाण्डम् ।
घृतमधुपात्रं बिभ्रतं हस्तपद्मैः
हरिहरसुतमीडे चक्रमन्त्रात्ममूर्तिम् ॥

ॐ । महाशास्ता विश्वशास्ता लोकशास्ता तथैव च ।
धर्मशास्ता वेदशास्ता कालशस्ता गजाधिपः ॥१॥

गजारूढो गणाध्यक्षो व्याघ्रारूढो महद्युतिः ।
गोप्तागीर्वाणसंसेव्यो गतातङ्को गणाग्रणीः ॥२॥

ऋग्वेदरूपो नक्षत्रं चन्द्ररूपो बलाहकः ।
दूर्वाश्यामो महारूपः क्रूरदृष्टिरनामयः ॥३॥

त्रिनेत्र उत्पलकरः कालहन्ता नराधिपः ।
खण्डेन्दुमौळितनयः कल्हारकुसुमप्रियः ॥४॥

मदनो माधवसुतो मन्दारकुसुमर्चितः ।
महाबलो महोत्साहो महापापविनाशनः ॥५॥

महाशूरो महाधीरो महासर्पविभूषणः ।
असिहस्तः शरधरो हालाहलधरात्मजः ॥६॥

अर्जुनेशोऽग्निनयनश्चानङ्गमदनातुरः ।
दुष्टग्रहाधिपः श्रीदः शिष्टरक्षणदीक्षितः ॥७॥

कस्तूरीतिलको राजशेखरो राजसत्तमः ।
राजराजार्चितो विष्णुपुत्रो वनजनाधिपः ॥८॥

वर्चस्करोवररुचिर्वरदो  वायुवाहनः ।
वज्रकायः खड्गपाणिर्वज्रहस्तो बलोद्धतः ॥९॥

त्रिलोकज्ञश्चातिबलः पुष्कलो वृत्तपावनः ।
पूर्णाधवः पुष्कलेशः पाशहस्तो भयापहः ॥१०॥

फट्काररूपः पापघ्नः पाषण्डरुधिराशनः ।
पञ्चपाण्डवसन्त्राता परपञ्चाक्षराश्रितः ॥११॥

पञ्चवक्त्रसुतः पूज्यः पण्डितः परमेश्वरः ।
भवतापप्रशमनो भक्ताभीष्टप्रदायकः ॥१२॥

कविः कवीनामधिपः कृपाळुः क्लेशनाशनः ।
समोऽरूपश्च सेनानिर्भक्तसम्पत्प्रदायकः ॥१३॥

व्याघ्रचर्मधरः शूली कपाली वेणुवादनः ।
कम्बुकण्ठः कलरवः किरीटादिविभूषणः ॥१४॥

धूर्जटिर्वीरनिलयो वीरो वीरेन्दुवन्दितः ।
विश्वरूपो वृषपतिर्विविधार्थफलप्रदः ॥१५॥

दीर्घनासो महाबाहुश्चतुर्बाहुर्जटाधरः ।
सनकादिमुनिश्रेष्ठस्तुत्यो हरिहरात्मजः ॥१६॥

इति श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP