संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीवेदव्यासाष्टोत्तरनामस्तोत्रम्

श्रीवेदव्यासाष्टोत्तरनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


यं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं
चर्माम्बरं सुरमुनीन्द्रनुतं प्रसन्नम् ।
कृष्णत्विषं कनकपिङ्गजटाकलापं
व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥

अविद्यातिमिरादित्यं ब्रह्मविद्याविशारदम् ।
शारदाशङ्करात्मानं भारतीतीर्थमाश्रये ॥

ॐ वेदव्यासो विष्णुरूपः पाराशर्यस्तपोनिधिः ।
सत्यसन्धः प्रशान्तात्मा वाग्मी सत्यवतीसुतः ॥१ ॥

कृष्णद्वैपायनो दान्तो बादरायणसंज्ञितः ।
ब्रह्मसूत्रग्रथितवान् भगवाञ्ज्ञानभास्करः ॥२ ॥

सर्ववेदान्ततत्त्वज्ञः सर्वज्ञो वेदमूर्तिमान् ।
वेदशाखाव्यसनकृत्कृतकृत्यो महामुनिः ॥३ ॥

महाबुद्धिर्महासिद्धिर्महाशक्तिर्महाद्युतिः ।
महाकर्मा महाधर्मा महाभारतकल्पकः ॥४ ॥

महापुराणकृज्ज्ञानी ज्ञानविज्ञानभाजनम् ।
चिरञ्जीवी चिदाकारश्चित्तदोषविनाशकः ॥५ ॥

वासिष्ठः शक्तिपौत्रश्च शुकदेवगुरुर्गुरुः ।
आषाढपूर्णिमापूज्यः पूर्णचन्द्रनिभानः ॥६ ॥

विश्वनाथस्तुतिकरो विश्ववन्द्यो जगद्गुरुः ।
जितेन्द्रियो जितक्रोधो वैराग्यनिरतः शुचिः ॥७ ॥

जैमिन्यादिसदाचार्यः सदाचारसदास्थितः ।
स्थितप्रज्ञः स्थिरमतिः समाधिसंस्थिताशयः ॥८ ॥

प्रशान्तिदः प्रसन्नात्मा शङ्करार्यप्रसादकृत् ।
नारायणात्मकः स्तव्यः सर्वलोकहिते रतः ॥९ ॥

अचतुर्वदनब्रह्मा द्विभुजापरकेशवः ।
अभाललोचनशिवः परब्रह्मस्वरूपकः ॥१० ॥

ब्रह्मण्यो ब्राह्मणो ब्रह्मी ब्रह्मविद्याविशारदः ।
ब्रह्मात्मैकत्वविज्ञाता ब्रह्मभूतः सुखात्मकः ॥११ ॥

वेदाब्जभास्करो विद्वान् वेदवेदान्तपारगः ।
अपान्तरतमोनामा वेदाचार्यो विचारवान् ॥१२ ॥

अज्ञानसुप्तिबुद्धात्मा प्रसुप्तानां प्रबोधकः ।
अप्रमत्तोऽप्रमेयात्मा मौनी ब्रह्मपदे रतः ॥१३ ॥

पूतात्मा सर्वभूतात्मा भूतिमान्भूमिपावनः ।
भूतभव्यभवज्ञाता भूमसंस्थितमानसः ॥१४ ॥

उत्फुल्लपुण्डरीकाक्षः पुण्डरीकाक्षविग्रहः ।
नवग्रहस्तुतिकरः परिग्रहवर्जितः ॥१५ ॥

एकान्तवाससुप्रीतः शमादिनिलयो मुनिः ।
एकदन्तस्वरूपेण लिपिकारी बृहस्पतिः ॥१६ ॥

भस्मरेखाविलिप्ताङ्गो रुद्राक्षावलिभूषितः ।
ज्ञानमुद्रालसत्पाणिः स्मितवक्त्रो जटाधरः ॥१७ ॥

गभीरात्मा सुधीरात्मा स्वात्मारामो रमापतिः ।
महात्मा करुणासिन्धुरनिर्देश्यः स्वराजितः ॥१८ ॥

इति श्रीयोगानन्दसरस्वतीविरचितं
श्रीवेदव्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 28, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP