संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


सूर्य बीज मन्त्र - ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥

अरुणाय शरण्याय करुणारससिन्धवे ।
असमानबलायाऽर्तरक्षकाय नमो नमः ॥१॥

आदित्यायाऽदिभूताय अखिलागमवेदिने ।
अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥२॥

इनाय विश्वरूपाय इज्यायैन्द्राय भानवे ।
इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥३॥

ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥४॥

उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥५॥

ऊर्जस्वलाय वीराय निर्जराय जयाय च ।
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥६॥

ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च ।
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥७॥

ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे ।
ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥८॥

लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च ।
कनत्कनकभूषाय खद्योताय ते नमः ॥९॥

लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे ।
अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥१०॥

एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे ।
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥११॥

ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।
दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥१२॥

ओजस्कराय जयिने जगदानन्दहेतवे ।
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥१३॥

ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने ।
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥१४॥

अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे ।
अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥१५॥

अहस्कराय रवये हरये परमात्मने ।
तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥१६॥

ॐ नमो भास्करायाऽदिमध्यान्तरहिताय च ।
सौख्यप्रदाय सकलजगताम्पतये नमः ॥१७॥

नमः सूर्याय कवये नमो नारायणाय च ।
नमो नमः परेशाय तेजोरूपाय ते नमः ॥१८॥

ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च ।
ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥१९॥

श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।
निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥२०॥

यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा ।
इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥

इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः ।
स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम् ॥

इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP