संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
विश्वकर्मनामाष्टोत्तरशतकम्

विश्वकर्मनामाष्टोत्तरशतकम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीगणेशाय नमः ।
अथ श्रीविश्वकर्मनामाष्टोत्तरशतकं प्रारम्भम् ।
अस्य श्रीविश्वकर्मनामाष्टोत्तरशतकस्तोत्रमन्त्रस्य
ब्रह्मा ऋषिः । श्रीविश्वकर्मा देवता । अनुष्टुप्छन्दः ।
सर्वाभीष्टसिद्ध्यर्थं श्रीविश्वकर्मप्रीत्यर्थे जपे विनियोगः ॥

अथ ध्यानम् ।
पञ्चाननो दशभुजा घृतवद दीक्षः
केयूरहारमणिकुण्डलचण्डतेजाः ।
भस्माङ्कितो मणिमयासनसंस्थितोऽसौ
सर्वेश्वरो वसतु मे हृदि विश्वकर्मा ॥

ॐ विश्वकर्मा मनुस्त्वष्टा स्थाष्ठि च स्थविरो ध्रुवः ।
विष्णुर्वैश्वानरो योगी शिल्पाचार्यः क्रियापरः ॥१॥

अमयी निर्भयः शान्तः सत्यव्यामः सतां प्रियः ।
लोकाध्यक्षः सुराध्यक्षो वरदोऽभयदो वरः ॥२॥

मयो मन्द्रर्महातेजाः शिवयोगी हरिप्रियः ।
कायदः कयदः कान्तः कुलीनः कौशलप्रदः ॥३॥

दाता सत्यः स्वराड्विभुः गृहस्थाश्रमिणो मतिः ॥

वनवासी महामायो रूपाध्यक्षो ह्यचिन्तितः ॥४॥

स्वापनः शाघ्र सोचिन्त्यः कौशलः कर्मठो नरः ॥

जटी मुण्डी शिखी देवः संवृत्ताङ्गः पिशाचराट् ॥५॥

शास्त्रविधिर्विधिकरो लोकेशः पावनः परः ॥

हरो बुद्धिप्रदोऽनन्तः सत्यसङ्कल्प ईश्वरः ॥६॥

सत्यकामः सत्यरुचिः सत्यार्थः शम्भवः शिवः ॥

नादप्रियो बोधकर्ता करुणाश्रीरायुधप्रियः ॥७॥

घना खड्गी ध्वजी वर्मी शूली चक्री कपालभृत् ।
अजरो प्रणवो व्यक्तोऽव्यक्तः कृष्णो यजुर्डविः ॥८॥

यज्ञ इज्यो महान्स्पष्टः सोयी सम्राड् भवोऽभवः ॥

नाथः शिल्पी कविः शूरो मुनिर्मौनी दिगम्बरः ॥९॥

सर्वायुधिः सर्वसहः सर्वकृत् शङ्करप्रभुः ॥

इत्यष्टशतसङ्ख्याभिर्नामभिः संस्तुतो मयः ॥१०॥

इत्यष्टशतनामेदं यः पठेन्नित्यशो नरः ।
सोऽर्थी यशः समाप्नोति श्रेयः सकलसम्पदः ॥११॥

इति विश्वकर्मनामाष्टोत्तरशतकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 28, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP