श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
। श्रीसीतारामौ विजयेते ।
ॐ हनुमानञ्जनासूनुर्धीमान् केसरिनन्दनः ।
वातात्मजो वरगुणो वानरेन्द्रो विरोचनः ॥१॥
सुग्रीवसचिवः श्रीमान् सूर्यशिष्यस्सुखप्रदः ।
ब्रह्मदत्तवरो ब्रह्मभूतो ब्रह्मर्षिसन्नुतः ॥२॥
जितेन्द्रियो जिताराती रामदूतो रणोत्कटः ।
सञ्जीविनीसमाहर्ता सर्वसैन्यप्रहर्षकः ॥३॥
रावणाकम्प्यसौमित्रिनयनस्फुटभक्तिमान् ।
अशोकवनिकाच्छेदी सीतावात्सल्यभाजनम् ॥४॥
विषीदद्भूमितनयार्पितरामाङ्गुलीयकः ।
चूडामणिसमानेता रामदुःखापहारकः ॥५॥
अक्षहन्ता विक्षतारिस्तृणीकृतदशाननः ।
कुल्याकल्पमहाम्भोधिस्सिंहिकाप्राणनाशनः ॥६॥
सुरसाविजयोपायवेत्ता सुरनरार्चितः ।
जाम्बवन्नुतमाहात्म्यो जीविताहतलक्ष्मणः ॥७॥
जम्बुमालिरिपुर्जम्भवैरिसाध्वसनाशनः ।
अस्त्रावध्यो राक्षसारिस्सेनापतिविनाशनः ॥८॥
लङ्कापुरप्रदग्धा च वालानलसुशीतलः ।
वानरप्राणसन्दाता वालिसूनुप्रियङ्करः ॥९॥
महारूपधरो मान्यो भीमो भीमपराक्रमः ।
भीमदर्पहरो भक्तवत्सलो भर्त्सिताशरः ॥१०॥
रघुवंशप्रियकरो रणधीरोरयाकरः ।
भरतार्पितसन्देशो भगवच्छिलष्टविप्रग्रहः ॥११॥
अर्जुनध्वजवासी च तर्जिताशरनायकः ।
महान् महामधुरवाङ्महात्मा मातरिश्वजः ॥१२॥
मरुन्नुतो महोदारगुणो मधुवनप्रियः ।
महाधैर्यो महवीर्यो मिहिराधिककान्तिमान् ॥१३॥
अन्नदो वसुदो वाग्मी ज्ञानदो वत्सलो वशी ।
वशीकृताखिलजगद्वरदो वानराकृतिः ॥१४॥
भिक्षुरूपप्रतिच्छन्नोऽभीतिदो भीतिवर्जितः ।
भूमीधरहरोभूतिदायको भूतसन्नुतः ॥१५॥
भुक्तिमुक्तिप्रदो भूमा भुजनिर्जितराक्षसः ।
वाल्मीकिस्तुतमाहात्म्यो विभीषणसुहृद्विभुः ॥१६॥
अनुकम्पानिधिः पम्पातीरचारी प्रतापवान् ।
बह्मास्त्रहतरामादिजीवनो ब्रह्मवत्सलः ॥१७॥
जयवार्ताहरो जेता जानकीशोकनाशनः ।
जानकीरामसाहित्यकारी जनसुखप्रदः ॥१८॥
बहुयोजनगन्ता च बलवीर्यगुणाधिकः ।
रावणालयमर्दी च रामपादाब्जवाहकः ॥१९॥
रामनामलसद्वक्तो रामायणकथादृतः ।
रामस्वरूपविलसन्मानसो रामवल्लभः ॥२०॥
इत्थमष्टोत्तरशतं नाम्नां वातात्मजस्य यः ।
अनुसन्ध्यं पठेत्तस्य मारुतिस्संप्रसीदति ॥२१॥
प्रसन्ने मारुतौ रामो भुक्तिमुक्ती प्रयच्छति ।
इति श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रं समाप्तम् ।
N/A
References : N/A
Last Updated : December 30, 2025

TOP