संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र| आर्यताराष्टोत्तरशतनामस्तोत्रम् अष्टोत्तरशतनामस्तोत्र श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम् श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम् तुलस्यष्टोत्तरशतनामस्तोत्रं नृसिंहाष्टोत्तरशतनामस्तोत्रम् सरस्वत्यष्टोत्तरशतनामस्तोत्रम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् गौर्यष्टोत्तरशतनामस्तोत्रम् श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ललिताष्टोत्तरशतनामस्तोत्रम् सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम् लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम् श्री सीता अष्टोत्तरशतनामस्तोत्रम् श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं सहस्रशीर्ष्णे वै तुभ्यं स... गणेशहेरंबगजाननेति महोदर! ... श्री देव्युवाच- देव देव म... श्रीशंकराचार्यवर्यश्च ब्र... महाशास्ता महादेवो महादेवस... रजताचलशृंगाग्रमध्यस्थायै ... वासुदेवं हृषीकेशं वामनं ज... अग्नेः अष्टोत्तरशतनामस्तोत्रम् श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम् श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम् अवलोकितेश्वराष्टोत्तरशतनामस्तोत्रम् आकाशगर्भनामाष्टोत्तरशतस्तोत्रम् श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम् बटुकभैरवाष्टोत्तरशतनामस्तोत्रम् आर्यताराष्टोत्तरशतनामस्तोत्रम् आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् इन्दिराष्टोत्तरशतनामस्तोत्रम् उमाऽष्टोत्तरशतनामस्तोत्रम् कालीशतनामस्तोत्रं सम्पूर्णम् ॥ श्रीकमलाष्टोत्तरशतनामस्तोत्रम् कार्तिकेयशताष्टनामस्तोत्रम् श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम् आद्या कालिकादेव्याः शतनामस्तोत्रम् कालिकाशतनामस्तोत्रम् आर्यताराष्टोत्तरशतनामस्तोत्रम् अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.Ashtottara shatanamavali means 108 names of almighty God and Tags : ashtottar shatnam stotradevidevtasanskritstotraसंस्कृतस्तोत्र आर्यताराष्टोत्तरशतनामस्तोत्रम् Translation - भाषांतर ॐ नमः श्री आर्यतारायै ।श्रीमत्पोतलके रम्ये नानाधातुविराजिते ।नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते ॥१॥नानानिर्झरभाङ्कारैर्नानामृगसमाकुले ।नानाकुसुमजातीभिः समन्तादधिवासिते ॥२॥नानाहृद्यफलोपेतषट्पदोद्गीतनिःस्वनैः ।किन्नरैर्मधुरोद्गीतैर्मत्तरवारणसङ्कुलैः ॥३॥सिद्धविद्याधरगणैर्गन्धर्वैश्च निनादिते ।मुनिभिर्वीतरागैश्च सततं सुनिषेविते ॥४॥बोधिसत्त्वगणैश्चान्यैर्दशभूमीश्वरैरपि ।आर्यतारादिभिर्देवैर्विद्याराज्ञीसहस्रकैः ॥५॥क्रोधराजगणैश्चान्यैर्हयग्रीवादिभिर्वृते ।सर्वसत्त्वहिते युक्तो भगवानवलोकितः ॥६॥व्याजहार ततः श्रीमान् पद्मगर्भासने स्थितः ।महता तपसा युक्तो मैत्र्या च कृपयान्वितः ॥७॥धर्मं दिदेश तस्यां च महत्यां देवपर्षदि ।तत्रापविद्धमागम्य वज्रपाणिर्महाबलः ॥८॥परया कृपया युक्तः पप्रच्छ चावलोकितम् ।तस्करोरगसिंहोग्रगजव्याघ्रादिसङ्कुले ॥९॥सीदन्त्यमी मुने सत्त्वा मग्नाः संसारसागरे ।बद्धाः सांसारिकैः पाशै रागद्वेषतमोमयैः ॥१०॥मुच्यन्ते येन सत्त्वास्ते तन्मे ब्रूहि महामुने ।एवमुक्तो जगन्नाथः स श्रीमानवलोकितः ॥११॥उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनीम् ।शृणु गुह्यकराजेन्द्र अमिताभस्य तायणीः(णीम्) ॥१२॥प्रणिधानवशोत्पन्नां ममाज्ञां लोकमातरम् ।महाकरुणयोपेतां जगदुद्धरणोद्धृताम् ॥१३॥उदितादित्यसङ्काशां पुर्णेन्दुवदनप्रभाम् ।भाषयन्तीमिमां तारां सदेवासुरमानुषान् ॥१४॥कम्पयन्तीं च त्रीन् लोकान् त्रासयन्तीं यक्षराक्षसान् ।नीलोत्पलकरां देवीं मा भैर्मा भैरिति ब्रुवन् ॥१५॥जगत्संरक्षणार्थयाहमुत्पादिता जिनैः ।कान्तारे शस्त्रसम्पाते नानाभयसमाकुले ॥१६॥स्मरणादेव नामानि सत्त्वान् रक्षाम्यहं सदा ।तारयिष्याम्यहं सत्त्वान् नानाभयमहार्णवात् ॥१७॥तेन तारेति मां लोके गायन्ति मुनिपुङ्गवाः ।कृताञ्जलिपुटो भूत्वा ततः सादरसाध्वसः ॥१८॥ज्वलयत्यन्तरिक्षे तामिदं वचनमब्रवीत् ।नामाष्टशतकं ब्रूहि यत्पुरा कीर्तितं जनैः ॥१९॥दशभूमीश्वरैर्नाथैर्बोधिसत्त्वैर्महर्द्धिकैः ।सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्द्धनम् ॥२०॥धनधान्यकरं चैव आरोग्यं पुष्टिवर्धनम् ।आयुरारोग्यजनकं सर्वसत्त्वसुखावहम् ॥२१॥लक्ष्म्याः श्रियः स्थापकं च सर्वसत्त्वविवर्द्धनम् ।मैत्रीमालम्ब्य सत्त्वानां तत्कीर्तय महामुने ॥२२॥एवमुक्ते जगन्नाथः प्रहसन्नवलोकितः ।व्यवलोक्य दिशः सर्वा मैत्रीस्फरणया दृशा ॥२३॥दक्षिणं करमुद्धृत्य पुण्यलक्षणमण्डितम् ।तमुवाच महाप्राज्ञः साधु साधु महातप ॥२४॥नामानि शृणु महाभाग सर्वसत्त्वैकवत्सरे ।यानि सङ्कीर्त्य मनुजा सम्पदा स्युर्धनेश्वराः ॥२५॥सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः ।अकालमृत्युनिर्दग्धाश्च्युता यान्ति सुखावतीम् ॥२६॥तान्यहं संप्रवक्ष्यामि देवसङ्घाः शृणुत मे ।अनुमोदध्वमेतद्वा भविष्यध्वं सुनिर्वृताः ॥२७॥मैत्रीहृदये निर्मले श्यामे श्यामरूपि महाप्राज्ञे प्रबलवरभूषिते ।अपराजिता महारौद्री विश्वरूपी महाबला । ॐ सुश्रिये ॥२८॥ॐ कल्याणी महातेजा लोकधात्री महायशाः ।सरस्वती विशालाक्षी प्रज्ञा श्रीर्बुद्धिवर्धिनी ॥२९॥धृतिदा पुष्टिदा स्वाहा ॐकारा कामरूपिणी ।सर्वसत्त्वहितोद्युक्ता सङ्ग्रामोत्तारिणी जया ॥३०॥प्रज्ञापारमिता देवी आर्यतारा मनोरमा ।दुन्दुभी शङ्खिनी पूर्णा विद्याराज्ञी प्रियम्वदा ॥३१॥चन्द्रानना महागौरी अजिता पीतवाससा ।महामाया महाश्वेता महाबलपराक्रमा ॥३२॥महारौद्री महाचण्डी दुष्टसत्त्वनिषूदिनी ।प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा ॥३३॥विद्युन्मारी ध्वजी खङ्गी चक्री चापोद्यतायुधा ।जम्भनो स्तम्भनी काली कालरात्रिर्निशाचरी ॥३४॥रक्षणी मोहनी शान्ता कान्तारी द्रावणी शुभा ।ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी ॥३५॥माङ्गल्या शाङ्करी सौम्या जातवेदा मनोजवा ।कपालिनी महावेगा सन्ध्या सत्याऽपराजिता ॥३६॥सार्थवाहकृपादृष्टिर्नष्टमार्गप्रदर्शिनी ।वरदा शासनी शास्त्री सुरूपाऽमृतविक्रमा ॥३७॥शर्वरी योगिनी सिद्धा चण्डारी(ली)अमृता ध्रुवा ।धन्या पुण्या महाभागा शुभगा प्रियदर्शना ॥३८॥कृतान्तत्रासिनी भीमा उग्रा उग्रमहातपा ।जगद्धिते सदोद्युक्ता शरण्या भक्तवत्सला ॥३९॥वागीश्वरी शिवा सूक्ष्मा नित्या सर्वक्रमानुगा ।सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनप्रदा ॥४०॥अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा ॥ तारानामगुणानन्ता सर्वाशापरिपूरका ॥४१॥ॐ तारे कृपावरे श्रीक्लेशश्रवणीये स्वाहा ।नाम्नामष्टोत्तरशतं ह्येतद्यत्कीर्तितं मया ।रहस्यभूतं गुह्यं च देवानामपि दुर्लभम् ॥४२॥सौभाग्यभोगकरणं सर्वकिल्विषनाशनम् ।सर्वव्याधिप्रशमनं सर्वसत्त्वसुखावहम् ॥४३॥त्रिकालं यः पठेद्धीमान् शुचिस्थाने समाहितः ।सोऽचिरेणैव कालेन राज्यश्रियमवाप्नुयात् ॥४४॥दुःखी स्यात्तु सुखी नित्यं दरिद्रो धनवान् भवेत् ।पुत्रो भवेन्महाप्राज्ञो मेधावी च न संशयः ॥४५॥बन्धनान्मुच्यते बद्धो व्यवहारे जयोअ भवेत् ।शत्रवो मित्रतां यान्ति शृङ्गिणः शुनका अपि ॥४६॥सङ्ग्रामे सङ्कटे दुर्गे नानाभयसमुच्छ्रिते ।स्मरणादेव नामानि सर्वान्भयानपोहति ॥४७॥नाकालमृत्युर्भवति प्राप्नोति विपुलाशयम् ।मानुष्ये सफलं जन्म तस्यैकस्य महात्मनः ॥४८॥यश्चेदं प्रातरुत्थाय मानवः कीर्तयिष्यति ।स दीर्घकालमायुष्मान् श्रियं च लभते नरः ॥४९॥देवा नागास्तथा यक्षा गन्धर्वा कठपूतनाः ।पिशाचा राक्षसा भूता मातरो रौद्रतेजसाः ॥५०॥डाकिन्यस्तारकाः प्रेताः स्कन्दोमाद्या महाग्रहाः ।छायापस्मारकाश्चैव खेटका खार्दकादयः ॥५१॥वेतालाश्चिञ्चका प्रेष्या ये चान्ये दुष्टचेतसः ।छायामपि न लङ्घन्ति किं पुनस्तस्य विग्रहम् ॥५२॥दुष्टसत्त्वा न बाधन्ते व्याधयो नाक्रमन्ति च ।सर्वैश्वर्यगुणैर्युक्तो वंशवृद्धिश्च जायते ॥५३॥जातिस्मरो भवेद् धीमान् कुलीनः प्रियदर्शनः ।प्रीतिमांश्च महावाग्मी सर्वशास्त्रविशारदः ॥५४॥कल्याणमित्रसंसेवी बोधिचित्तविभूषितः ।सदाऽविरहितो बुद्धैर्यत्र यत्रोपपद्यते ॥५५॥इति श्रीआर्यताराभट्टारिकाया नामाष्टोत्तरशतं बुद्धपरिभाषितं परिसम्पूर्णम् ॥ N/A References : N/A Last Updated : December 21, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP