संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम्

श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


ध्यानम् -
मुरान्तकं सुरार्चितं धरापतिं परात्परं
 निरामयं जराहरं करेण वेत्रधारिणम् ।
सदा ऋते प्रतिष्ठितं भजामि विश्वरूपिणं
 सदाशिवप्रियं हरिं नमामि पार्थसारथिम् ॥१॥

भूपेन तेन मुचुकुन्द महात्मना यः
 संस्थापितोस्त्र मुचुकुन्दपुरे मनोज्ञे ।
शङ्खेन चारुतरवेत्रधृतेन दोष्णा
 संक्षोभयन्तमखिलं भुवनं तमिडे ॥२॥

पार्थस्य युद्ध विमुखस्य हृदिस्थ मौढ्यम्
 गीतामृतेन शमितं किल येन सद्यः ।
वेदान्तवेद्यमनघं पुरुषं पुराणम्
 तं पार्थसारथिमहं प्रणतोऽस्मि भक्त्या ॥३॥

अथ स्तोत्रम् ।
ॐ श्रीकृष्णः पार्थसूतः श्रीतुलसीवनसंश्रितः ।
ईश ईड्य इळाकान्तो लीलार्थमनुजाकृतिः ॥१॥

कृतभारतयुद्धार्थसूतवेषः श्रियःपतिः ।
व्यासप्रत्यक्षितस्वार्चविग्रहो विमलो विभुः ॥२॥

कृष्णार्तिघ्नः कैरविणीसरस्तीरविहारभूः ।
रुक्मिणी सात्यकीरामप्रद्युम्नोषाधवान्वितः ॥३॥

आत्रेयपूजासन्तुष्टो वृन्दारण्यकृतालयः ।
आनन्दाख्यविमानस्थ आत्रेयर्षिप्रतिष्ठितः ॥४॥

प्रपन्नागोहरः पार्थराज्यदो रुक्मिणीप्रियः ।
शङ्खराड्दक्षिणकरो वरदेतरपाणिमान् ॥५॥

नन्दकी गोविन्द उरुक्रमः कल्याणकारणम् ।
सुमत्याख्यनृपश्रेष्ठवरदो वेङ्कटेश्वरः ॥६॥

नीळाधवो धरानन्दवर्धनो वृष्णि पुङ्गवः ।
सुमत्यवनिपालार्थकुटुम्बसहितः सुधीः ॥७॥

वेदवेद्योऽच्युतो यज्ञमूर्तिर्यज्ञभुगुत्तमः ।
सुमतिप्रेमरचितमहोत्सवविधिप्रियः ॥८॥

महामतिर्महाभागो महायोगी कविप्रियः ।
विष्णुर्वेङ्कटकृष्णाख्यो वरदो वत्सलोस्नघः ॥९॥

सालिग्रामशिलामाली पीनवक्षाः प्रियोत्सवः ।
केशवार्येष्टिसन्तुष्टो यतीन्द्रोत्पत्ति कारणम् ॥१०॥

मयूरनगरीनाथो जगद्दुरितभञ्जनः ।
गीतोपनिषदाचार्यो विश्वरूपप्रदर्शनः ॥११॥

भक्तिसारतपस्तुष्टोस्नन्तोस्नन्तगतिः पतिः ।
भक्तिसारस्तुतस्तोत्रप्रियः पक्षीश्वरध्वजः ॥१२॥

परकालादिसूक्तीड्यो वासुदेवः सुरारिहा ।
इन्द्रसोमाग्नि वरुणमीनतीर्थविहारभूः ॥१३॥

गम्भीराम्भस्समद्भूतसद्यःसम्फुल्लपद्मदृक् ।
पञ्चमूर्तिः पञ्चहेतिः पञ्चबाणपिता हरिः ॥१४॥

मन्मथो वेदवल्लीशो श्रीशः सर्वशुभाश्रयः ।
भृगुपुत्रीप्रियो देवः भृग्वाराधनतोषितः ॥१५॥

चतुर्भुजः पद्मनाभः शेषशायी सुखायनम् ।
माघशुक्ल द्वादशीकृतोद्वाहश्च कृपानिधिः ॥१६॥

रामः सीतासमायुक्तो मधुमद्वरदो वसुः ।
ससौमित्रिः सभरतः साञ्जनेयो धनुर्धरः ॥१७॥

गजेन्द्रवरदस्तार्क्ष्यसमारूढो नृपार्चितः ।
आरूढयोगो नृहरिर्मौद्गल्यवरदोस्मलः ॥१८॥

शरण्यः शरणः शान्तः शरणागतवत्सलः ।
महामन्त्रार्चनप्रीतो महैश्वर्यप्रदायकः ॥१९॥

॥ फलश्रुतिः ॥

य इदं परमं पुण्यं नाम्नामष्टोत्तर शतम् ।
पार्थस्य सारथेःस्तोत्रं सर्वाभीष्टप्रदायकम् ॥१॥

प्रत्यहं प्रातरुत्थाय प्रयतः पठते नरः ।
तस्य विद्या धनं शान्तिः पुष्टिस्तुष्टिश्च जायते ॥२॥

स्वयमेव हरिः साक्षात् भूत्वा सारथिरुत्तमः ।
तस्य जीवनयात्रायां कुरुते सर्वमङ्गलम् ॥३॥

इति श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP