संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीसूर्यनारायणदेवतामुद्दिश्य प्रीत्यर्थं,
श्रीसूर्याष्टोत्तरशतनामस्तोत्रमहामन्त्रपठनं करिष्ये ॥

अस्य श्रीसूर्याष्टोतरशतनामस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः,
अनुष्टुप्च्छन्दः, श्रीसूर्यनारायणो देवता ।
ह्रां बीजं, ह्रीं शक्तिः ह्रूं कीलकं,
श्रीसूर्यनारायणदेवताप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
 न्यासौ - करन्यासः           हृदयन्यासः
ओं ह्रां अघोर श्रीसूर्यनारायणाय - अङ्गुष्ठाभ्यां नमः - हृदयायनमः
ॐ ह्रीं चतुर्वेदपारायणाय - तर्जनीभ्यां नमः - शिरसेस्वाहा
ॐ ह्रूं उग्रभयङ्कराय - मध्यमाभ्यां नमः - शिखायै वषट्
ॐ हैं श्रीसूर्यनारायणाय - अनामिकाभ्यां नमः - कवचाय हुं
ॐ हौं कौपीनमौञ्जीधराय - कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट्
ओं ह्रं सहस्रकिरणाय      करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट्
भूर्भुवस्स्वरोमिति दिग्बन्धः ॥

ध्यानं
सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।
वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम् ॥

     लमिति पञ्चपूजां कृत्वा गुरुध्यानं कुर्यात् ।
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कस्सविता रविः ।
     गभस्तिमानजः कालो मृत्युर्धाता प्रजापतिः ॥

वैशम्पायन उवाच ।
शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः ।
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥१॥

धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने ।
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥२॥

ॐ सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥३॥

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥४॥

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥५॥

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥६॥

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥७॥

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥८॥

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । कालाध्यक्षः
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥९॥

भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥१०॥

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।
जयो विशालो वरदः सर्वधातुनिषेचिता ॥११॥  सर्वभूतनिषेवितः
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ॥

धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥१२॥

द्वादशात्मारविन्दाक्षः पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥१३॥

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥१४॥

एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । सूर्यस्यामिततेजसः
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥१५॥ प्रोक्तमेतत्स्व्यम्भुवा

शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् ।
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥१६॥

सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।
वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥१७॥

सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान् ।
लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥१८॥

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः ।
विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥१९॥

स्वर्भुवर्भूरोमिति दिग्विमोकः ।
हरिः ओं तत्सत् ।
श्रीसूर्यनारायणपरब्रह्मार्पणमस्तु ।

॥ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे
आरण्यकपर्वणि श्रीसूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

इति ब्रह्मपुराणे त्रयस्त्रिंशाध्यायान्तर्गतं
सूर्यनामाष्टोत्तरशतस्तोत्रं समाप्तम् ।

N/A

References : N/A
Last Updated : December 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP