संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीविष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रम्

श्रीविष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


(श्रीविष्णुसहस्रनामावल्यन्तर्गतं)
(सभाष्यम्)
ओक्षरोऽजोऽच्युतोऽमोघोऽनिरुद्धोऽनिमिषोऽग्रणीः ।
अव्ययोऽनादिनिधनोऽमेयात्माऽसम्मितोऽनिलः ॥१॥

अप्रमेर्योऽव्ययोऽग्राह्योऽमृतोऽव्यङ्गोऽच्युतोऽतुलः ।
अतीन्द्रोऽतीन्द्रियोऽदृश्योऽनिर्देश्यवपुरन्तकः ॥२॥

अनुत्तमोऽनघोऽमोघोऽप्रमेयात्माऽमिताशनः ।
अहःसवर्तकोऽनन्तजिदभूरजितोऽच्युतः ॥३॥

असङ्ख्येयोऽमृतवपुरर्थोऽनर्थोऽमितविक्रमः ।
अविज्ञाताऽरविन्दाक्षोऽनुकूलोऽहरपान्निधिः ॥४॥

अमृतांशूद्भवोऽमृत्युरमरप्रभुरक्षरः ।
अभोनिधिरनन्तात्माऽजोऽनलोऽसदधोक्षजः ॥५॥

अशोकोऽमृतपोऽनीशोऽनिरुद्धोऽमितविक्रमः ।
अनिर्विण्णोऽनयोऽनन्तोऽविधेयात्माऽपराजितः ॥६॥

अधिष्ठानमनन्तश्रीरप्रमत्तोऽप्ययोऽग्रजः ।
अयोनिजोऽनिवर्त्यर्कोऽनिर्देश्यवपुरर्चितः ॥७॥

अर्चिष्मानप्रतिरथोऽनन्तरूपोऽपराजितः ।
अनामयोऽनलोऽक्षोभ्योऽनेकमूर्तिरमूर्तिमान् ॥८॥

अमृताशोऽचलोऽमान्यधृतोऽणुरनिलोऽद्भुतः ।
अमूर्तिरर्होऽभिप्रायोऽचिन्त्योऽनिर्विण्ण एव च ॥९॥

अनादिरन्नमन्नादोऽजोऽव्यक्तोऽक्रूर एव च ।
अमेयात्माऽनधोऽश्वत्थोऽक्षोभ्योऽरौद्र एव च ॥१०॥

अधाताऽनन्त इत्येवं नाम्रामष्टोत्तरं शतम् ।
विष्णोः सहस्रनामभ्योऽकारादि समुद्धृतम् ॥११॥

स्मृतं श्रुतमधीतं तत्प्रसादादघनाशनम् ।
ध्यातं चिराय तद्भावप्रदं सर्वार्थसाधकम् ॥१२॥

इति विष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 28, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP