संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम्

श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


ध्यानम् -
सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिः
 दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रत्नाङ्गरागांशुकं
 सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥

अथ स्तोत्रम् ।
विश्वामित्रस्तु भगवान् कुमारं शरणं गतः ।
स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः ॥१॥

अष्टोत्तरशतनाम्नां शृणु त्वं तानि फाल्गुन ।
जपेन येषां पापानि यान्ति ज्ञानमवाप्नुयात् ॥२॥

त्वं ब्रह्मवादी त्वं ब्रह्मा ब्रह्मब्राह्मणवत्सलः ।
ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसङ्ग्रहः ॥३॥

त्वं परं परमं तेजो मङ्गलानां च मङ्गलम् ।
अप्रमेयगुणश्चैव मन्त्राणां मन्त्रगो भवान् ॥४॥

त्वं सावित्रीमयो देवः सर्वत्रैवापराजितः ।
मन्त्रः सर्वात्मको देवः षडक्षरवतां वरः ॥५॥

गवां पुत्रः सुरारिघ्नः सम्भवो भवभावनः ।
पिनाकी शत्रुहा चैव कूटः स्कन्दः सुराग्रणीः ॥६॥

द्वादशो भूर्भुवो भावी भुवःपुत्रो नमस्कृतः ।
नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः ॥७॥

हेमगर्भो महागर्भो जयश्च विजयेश्वरः ।
त्वं कर्ता त्वं विधाता च नित्योऽनित्योऽरिमर्दनः ॥८॥

महासेनो महातेजा वीरसेनश्चमूपतिः ।
सुरसेनः सुराध्यक्षो भीमसेनो निरामयः ॥९॥

शौरिर्यदुर्महातेजा वीर्यवान् सत्यविक्रमः ।
तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्जितः ॥१०॥

कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः ।
सुव्रतः सूर्यसङ्काशो वह्निगर्भो रणोत्सुकः ॥११॥

पिप्पली शीघ्रगो रौद्रिर्गाङ्गेयो रिपुदारणः ।
कार्तिकेयः प्रभुः क्षान्तो नीलदंष्ट्रो महामनाः ॥१२॥

निग्रहो निग्रहाणां च नेता त्वं दैत्यसूदनः ।
प्रग्रहः परमानन्दः क्रोधघ्नस्तारकोऽच्छिदः ॥१३॥

कुक्कुटी बहुलो वादी कामदो भूरिवर्धनः ।
अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वबोधनः ॥१४॥

अनघो ह्यमरः श्रीमानुन्नतो ह्यग्निसम्भवः ।
पिशाचराजः सूर्याभः शिवात्मा त्वं सनातनः ॥१५॥

एवं स सर्वभूतानां संस्तुतः परमेश्वरः ।
नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा ॥१६॥

प्रसन्नमूर्तिराहेदं मुनीन्द्र व्रियतामिति ।
मम त्वया द्विजश्रेष्ठ स्तुतिरेषा विनिर्मिता ॥१७॥

भविष्यति मनोभीष्टप्राप्तये प्राणिनां भुवि ।
विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् ॥१८॥

न राक्षसाः पिशाचा वा न भूतानि न चऽऽपदः ।
विघ्नकारीणि तद्गेहे यत्रैवं संस्तुवन्ति माम् ॥१९॥

दुःस्वप्नं न च पश्येत्स बद्धो मुच्येत बन्धनात् ।
स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् ॥२०॥

॥ इति श्रीस्कन्दमहापुराणे माहेश्वरखण्डान्तर्गते
कुमारिकाखण्डे श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP