संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
बटुकभैरवाष्टोत्तरशतनामस्तोत्रं

बटुकभैरवाष्टोत्तरशतनामस्तोत्रं

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


(कालसङ्कर्षणतन्त्रोक्तम्)
विनियोगः -
अस्य श्री बटुकभैरवाष्टस्तोत्र मन्त्रस्य
कालाग्निरुद्र ऋषिरनुष्टुप्छन्दः
आपदुद्धारक श्री बटुककेश्वरो देवः
भैरवी वल्लभः शक्तिः
ह्रीं बीजं
दण्डपाणिः कीलकं
मम समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने च विनियोगः ।
ऋष्यादिन्यासः -
कालग्निरुद्रऋषये नमः (शिरसि)।
अनुष्टप् छन्दसे नमः (मुखे)।
आपदुद्धारक श्री बटुकेश्वर देवाय नमः (हृदये )।
भैरवीवल्लभशक्तये नमः (पादयोः)।
ह्रीं बीजाय नमः (गुह्ये)।
दण्डपाणि कीलकाय नमः (नाभौ )।
मम समस्त शत्रुदमन-समस्तापन्निवारण -सर्वाभीष्टप्रदान विनियोगाय नमः (सर्वाङ्गे)।
करषडङ्गन्यासौ -
ॐ ह्रां बां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं बीं तर्जनीभ्यां नमः ।
ॐ ह्रूं बूं मध्यमाभ्यां नमः ।
ॐ ह्रैं बैं अनामिकाभ्यां नमः ।
ॐ ह्रौं बौं कनिष्ठकाभ्यां नमः ।
ॐ ह्रः बः करतलपृष्ठाभ्यां नमः ।
(एवं हृदयादि)
ध्यानं -
नीलजीमूतसङ्काशो जटिलो रक्तलोचनः ।
दंष्ट्राकरालवन्दनः सर्पयज्ञोपवीतवान् ॥१॥

दंष्ट्रायुधालङ्कृतश्च कपालस्त्रग्विभूषितः ।
हस्तन्यस्तकिरीटीको भस्मभूषितविग्रहः ॥२॥

नागराजकटीसूत्रो बालमूर्तिर्दिगम्बरः ।
मञ्जुशिञ्जानमञ्जीरपादकम्पितभूतलः ॥३॥

भूतप्रेतपिशाचैश्च सर्वतः परिवारितः ।
योगिनीचक्रमध्यस्थो मातृमण्डलवेष्टितः ॥४॥

अट्टहासस्फुरद्वक्त्रो भृकुटीभीषणाननः ।
भक्तसंरक्षणाथार्य दिक्षु भ्रमणतत्परः ॥५॥

एवम्भूतं तु बटुकं ध्यायामि बटुकेश्वरम् ।
आपदुद्धारकं देवं सर्वकामार्थदायकम् ॥६॥

एवं ध्यात्वा मानसैः सम्पूज्य च १०८ वारं मूलमन्त्रं जपेत् ।
मूलमन्त्रो यथा -
``ऊँ ह्रीं बं बटुकाय क्ष्रौं क्ष्रौं आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं बटुकाय स्वाहा । ``
मन्त्रजपप्रार्थना -
तारो माया तदनु बटुकाय द्वयं क्ष्रौं तदाय-
च्छब्दोद्धाराय शिरसि कुरु द्वन्द्वमुच्चैः प्रयुज्य ।
ह्रीं बीजं यद्बटुकपुटिलं भौवनं चाग्निजाया ।
एषा विद्या बटुकभव ते वाञ्छितं मे ददातु ॥

अथ स्तोत्रं -
ॐ ह्रीं बटुको वरदः शूरो भैरव कालभैरवः ।
भैरवीवल्लभो भव्यो दण्डपाणिर्दयानिधिः ॥१॥

वेतालवाहनो रौद्रो रुद्रभृकुटिसम्भवः ।
कपाललोचनः कान्तः कामिनीवशकृद्वशी ॥२॥

आपदुद्धारणो धीरो हरिणाङ्कशिरोमणिः ।
दंष्ट्राकरालो दृष्टौष्ठो धृष्टो दुष्टनिबर्हणः ॥३॥

सर्पहारः सर्पशिरः सर्पकुण्डलमण्डितः ।
कपाली करुणापूर्णः कपालिकशिरोमणिः ॥४॥

श्मशानवासी मांसाशी मधुमत्तोऽट्टहासवान् ।
वाग्मी वामव्रतो वाङ्मी वामदेवप्रियङ्करः ॥५॥

वनेचरो गिरिचरो वसुदो वायुवेगवान् ।
योगी योगव्रतधरो योगिनीवल्लभो युवा ॥६॥

वीरभद्रो विश्वनाथो विजेता वीरवन्दितः ।
भूताध्यक्षो भूतिधरो भूतभीतिनिवारणः ॥७॥

कलङ्कहीनः कङ्काली क्रूरः कुक्कुरवाहनः ।
गाढो गहनगम्भीरो गणनाथे-सहोदरः ॥८॥

देवीपुत्रो दिव्यमूर्तिर्दीप्तिमान् दीप्तलोचनः ।
महासेनप्रियकरो मान्यो माधवमातुलः ॥९॥

भद्रकालीपतिर्भद्रो भद्रदो भद्रवाहनः ।
पशूपहाररसिकः पाशी पशुपतिर्पतिः ॥१०॥

चण्डः प्रचण्ड चण्डेशश्चण्डीहृदयनन्दनः ।
दक्षो दक्षाध्वरहरो दिग्वासा दीर्घलोचनः ॥११॥

निरातङ्को निर्विकल्पः कल्पः कल्पान्तभैरवः ।
मदताण्डवकृन् मत्तो महादेवप्रियो महान् ॥१२॥

खट्वाङ्गपाणिः खातीतः खरशूलः खरान्तकृत ।
ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्रह्मणपालकः ॥१३॥

दिक्चरो भूचरो भूष्णुः खेचरः खेलनप्रियः ।
सर्वरोगप्रहर्त्ता च सर्वरोगनिषूदनः ॥१४॥

सर्वकामप्रदः शर्वः सर्वपापनिकृन्तनः ।
पातु मां सर्वतः श्रीमान् बटुको भैरवः सदा ॥१५॥

॥ इति कालसङ्कर्षणतन्त्रोक्तं बटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP