श्रीगणेशाष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and
श्रीगणेशाय नमः ।
यम उवाच ।
मन्दारमालाशमिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् ।
पुष्पं तयोः पत्रयुतं च शूराः सन्त्यज्य दूरं चरत प्रभीताः ॥३३॥
दूर्वायुतं विघ्नहरस्य गाथां सङ्गायमानं यदि पापयुक्तम् ।
पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरत प्रभीताः ॥३४॥
(अष्टोत्तरशतनामस्तोत्रं प्रारभ्यते)
ॐ गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् ।
वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्तमेवं त्यजत प्रभीताः ॥३५॥
अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥३६॥
महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र ।
परेश धरणीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥३७॥
प्रमोदमोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे ।
द्वन्द्वारिसिन्धौ स्थिरभावकारिन् वदन्तमेवं त्यजत प्रभीताः ॥३८॥
विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र ।
अनादिपूज्याखुग सर्वपूज्य वदन्तमेवं त्यजत प्रभीताः ॥३९॥
विधेर्ज लम्बोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् ।
सुरासुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥४०॥
वरिन् महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह ।
दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥४१॥
अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज ।
निधीश मन्त्रेश च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥४२॥
वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र ।
गुहाग्रज ब्रह्मप पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥४३॥
सिन्धोश्च शत्रो परशुप्रपाणे शमीश पुष्पप्रिय विघ्नहारिन् ।
दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥४४॥
धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः ।
अमेयमायामितविक्रमेति वदन्तमेवं त्यजत प्रभीताः ॥४५॥
द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रद प्रकाश ।
चिन्तामणे चित्तविहारकारिन् वदन्तमेवं त्यजत प्रभीताः ॥४६॥
यमस्य शत्रो अभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो ।
विदेह स्वानन्द अयोगयोग वदन्तमेवं त्यजत प्रभीताः ॥४७॥
गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचन्द्र ।
अनादिमध्यान्तमयप्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥४८॥
विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध ।
कर्तश्च पातश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥४९॥
(फलश्रुतिः)
इदमष्टोत्तरशतं नाम्नां तत् प्रपठन्ति ये ।
शृण्वन्ति तेषु कुरुत भीता मा वै प्रवेशनम् ॥५०॥
भुक्तिमुक्तिप्रदं ढुण्ढेर्धनधान्यप्रवर्धनम् ।
ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥५१॥
यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः ।
धामानि तत्र कुरुत सम्भीता मा प्रवेशनम् ॥५२॥
तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः ।
केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥५३॥
एवमुक्त्वा यमः सर्वान् किङ्करान् मौनमादधे ।
यामाः सर्वे गणेशानं भजते भावसंयुताः ॥५४॥
इदं शमीभवं पुण्यं माहात्म्यं यः शृणोति चेत् ।
पठति सिद्धिदं तस्य मन्दारस्य भविष्यति ॥५५॥
ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले
महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारस्पर्श-
महिमावर्णनं नाम षड्विंशतितमाऽध्यायान्तर्गतं यमकृतं
श्रीगणेशाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥
- ॥मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः २६ । ५.२६। ३३-५५॥
N/A
References : N/A
Last Updated : December 22, 2025

TOP