संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
गणेशहेरंबगजाननेति महोदर! ...

गणेशाष्टोत्तरशतनामस्तोत्रम् - गणेशहेरंबगजाननेति महोदर! ...

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


गणेशहेरंबगजाननेति
महोदर! स्वानुभवप्रकाशिन्! ।
वरिष्ठ! सिद्धिप्रिय!बुद्धिनाथ!
वदन्तमेवं त्यजत प्रभीताः ॥१॥

अनेकविघ्नान्तक! वक्रतुण्ड!
स्वसंज्ञवासिंश्चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन्
वदन्तमेवं त्यजत प्रभीताः ॥२॥

महेशसूनो गजदैत्यशत्रो
वरेण्यसूनो विकटत्रिनेत्र
परेश पृथ्वीधर! एकदन्त !
वदन्तमेवं त्यजत प्रभीताः ॥३॥

प्रमोदमोदेति नरान्तकारे
षडूर्मिहन्तर्गजकर्ण डुण्ढे!
द्वन्द्वारिसिन्धो स्थिरभावकरिन्!
वदन्तमेवं त्यजत प्रभीताः ॥४॥

विनायक ज्ञानविघातशत्रो
पराशरस्यात्मज! विष्णुपुत्र!
अनादिपूज्याखुग सर्वपूज्य
वदन्तमेवं त्यजत प्रभीताः ॥५॥

विद्येज्य लंबोदर धूम्रवर्ण
मयूरपालेति मयूरवाहिन् ।
सुरासुरैः सेवितपादपद्म!
वदन्तमेवं त्यजत प्रभीताः ॥६॥

वरिन्महाखुध्वज! शूर्पकर्ण!
शिवाजसिंहस्थ अनन्तवाह ।
दितौज विघ्नेश्वर शेषनाभे
वदन्तमेवं त्यजत प्रभीताः ॥७॥

अणोरणीयो महतोमहीयो
रवेर्ज योगेशज ज्येष्ठराज!
निधीश मन्त्रे शच शेषपुत्र!
वदन्तमेवं त्यजत प्रभीताः ॥८॥

वरप्रदातरदितेश्च सूनो
परात्पर ज्ञानद तारवक्त्र ।
गुहाग्रज ब्रह्मप पार्श्वपुत्र
वदन्तमेवं त्यजत प्रभीताः ॥९॥

सिन्धोश्च शत्रो! परशुप्रपाणे!
शमीश! पुष्पप्रिय! विघ्नहारिन् ।
दूर्वाभरैरर्चित! देवदेव!
वदन्तमेवं त्यजत प्रभीताः ॥१०॥

धियःप्रदातश्च शमिप्रियेति
सुसिद्धिदातश्च सुशान्तिदातः! ।
अमेयमायाऽमितविक्रमेति
वदन्तमेवं त्यजत प्रभीताः ॥११॥

द्विधाचतुर्थिप्रिय!कश्यपाज्ज!
धनप्रद! ज्ञानपदप्रकाश! ।
चिन्तामणे! चित्तविहारकारिन्!
वदन्तमेवं त्यजत प्रभीताः ॥१२॥

यमस्य शत्रो! अभिमान शत्रो!
विधेर्ज! हन्तः! कपिलस्य सूनो! ।
विदेह! स्वानन्द! अयोगयोग!
वदन्तमेवं त्यजत प्रभीताः ॥१३॥

गणस्य शत्रो कमलस्य शत्रो!
समस्तभावज्ञ! च फालचन्द्र! ।
अनादिमध्यान्तमय प्रचारिन्!
वदन्तमेवं त्यजत प्रभीताः ॥१४॥

विभो जगद्रूप!गणेश!भूमन्!
पुष्टेःपते!आखुगतेति बोद्धः
कर्तश्च पातुश्च तु संहरेति
वदन्तमेवं त्यजत प्रभीताः ॥१५॥

इदमष्टोत्तरशतं नाम्ना तस्य पठन्ति ये ।
शृण्वन्ति वा तेषु भीतः कुरुध्वं मा प्रवेशनम् ॥१६॥

भुक्तिमुक्तिप्रदं डुण्ढेर्धनधान्यप्रवर्धनम् ।
ब्रह्मभूयकरं स्तोत्रं जपन्तं नित्यमादरात् ॥१७॥

यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः ।
धामानि तत्र संभीताः कुरुध्वं मा प्रवेशनम् ॥१८॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP