ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
कमठः कन्धिमध्यस्थः करुणावरुणालयः ।
कुलाचलसमुद्धर्ता कुण्डलीन्द्रसमाश्रयः ॥१॥
कठोरपृष्टः कुधरः कलुषीकृतसागरः ।
कल्याणमूर्तिः क्रतुभुक्प्रार्थनाधृत विग्रहः ॥२॥
कुलाचलसमुद्भ्रान्तिघृष्टकण्डूतिसौख्यवान् ।
करालश्वाससङ्क्षुब्धसिन्धूर्मिप्रहताम्बरः ॥३॥
कन्धिकर्दमकस्तूरीलिप्तवक्षःस्थलः कृती ।
कुलीरादिपयस्सत्त्वनिष्पेषणचतुष्पदः ॥४॥
कराग्रादत्तसम्भुक्ततिमिङ्गिलगिलोत्करः ।
कन्धिपुष्पद्विरेफाभः कपर्द्यादिसमीडितः ॥५॥
कल्याणाचलतुङ्गात्मागाधीकृतपयोनिधिः ।
कुलिशत्पृष्ठसङ्घर्षक्षीणमूलकुलाचलः ॥६॥
काश्यपीसत्कुचप्रायमन्दराहतपृष्ठकः ।
कायैकदेशापर्याप्तशेषदिग्गजमण्डलः ॥७॥
कठोरचरणाघातद्वैधीकृतपयोनिधिः ।
कालकूटकृतत्रासः काण्डदुर्मितवैभवः ॥८॥
कमनीयः कविस्तुत्यः कनिधिः कमलापतिः ।
कमलासनकल्याणसन्धाता कलिनाशनः ॥९॥
कटाक्षक्षतदेवार्तिः केन्द्रादिविधृतांजलिः ।
कालीपतिप्रीतिपात्रं कामितार्थप्रदः कविः ॥१०॥
कूटस्थः कूटकमठः कूटयोगिसुदुर्लभः ।
कामहीनः कामहेतुः कामभृत्कंजलोचनः ॥११॥
क्रतुभुग्दैन्यविध्वंसी क्रतुभुक्पालकः क्रतुः ।
क्रतुपूज्यः क्रतुनिधिः क्रतुत्राता क्रतूद्भवः ॥१२॥
कैवल्यसौख्यदकथः कैशोरोत्क्षिप्तमन्दरः ।
कैवल्यनिर्वाणमयः कैटभप्रतिसूदनः ॥१३॥
क्रान्तसर्वाम्बुधिः क्रान्तपातालः कोमलोदरः ।
कन्धिसोर्मिजलक्षौमः कुलाचलकचोत्करः ॥१४॥
कटुनिश्श्वासनिर्धूतरक्षस्तूलः कृताद्भुतः ।
कौमोदकीहतामित्रः कौतुकाकविताहवः ॥१५॥
करालिकंटकोद्धर्ता कविताब्धिमणीसुमः ।
कैवल्यवल्लरीकन्दः कन्दुकीकृतचन्दिरः ॥१६॥
करपीतसमस्ताब्धिः कायान्तर्गतवाश्चरः ।
कर्पराब्जद्विरेफाभमन्दरः कन्दलत्स्मितः ॥१७॥
काश्यपीव्रततीकन्दः कश्यपादिसमानतः ।
कल्याणजालनिलयः क्रतुभुङ्नेत्रनन्दनः ॥१८॥
कबन्धचरहर्यक्षः क्रान्तदर्शिमनोहरः ।
कर्मठाविषयः कर्मकर्तृभावादिवर्जितः ॥१९॥
कर्मानधीनः कर्मज्ञः कर्मपः कर्मचोदनः ।
कर्मसाक्षी कर्महेतुः कर्मज्ञानविभागकृत् ॥२०॥
कर्ता कारयिता कार्यं कारणं करणं कृतिः ।
कृत्स्नं कृत्स्नातिगः कृत्स्नचेतनः कृत्स्नमोहनः ॥२१॥
करणागोचरः कालः कार्यकारणतातिगः ।
कालावशः कालपाशबद्धभक्तावनाभिधः ॥२२॥
कृतकृत्यः केलिफलः कीर्तनीयः कृतोत्सवः ।
कृतेतरमहानन्दः कृतज्ञः कृतसत्सुखः ॥२३॥
॥ इति ककारादि श्री कमठावताराष्टोत्तरशतम् रामेण पराभव
वैशाख बहुलद्वादश्यां लिखितम् श्री हयग्रीवायार्पितम् ॥
N/A
References : N/A
Last Updated : December 24, 2025

TOP