संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीमातङ्गीशतनामस्तोत्रम्

श्रीमातङ्गीशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीभैरव्युवाच -
भगवञ्छ्रोतुमिच्छामि मातङ्ग्याः शतनामकम् ।
यद्गुह्यं सर्वतन्त्रेषु केनापि न प्रकाशितम् ॥१॥

भैरव उवाच -
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।
नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥२॥

यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः ।
नश्यन्ति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥३॥

प्रसन्ना जायते देवी मातङ्गी चास्य पाठतः ।
सहस्रनामपठने यत्फलं परिकीर्तितम् ।
तत्कोटिगुणितं देवीनामाष्टशतकं शुभम् ॥४॥

अस्य श्रीमातङ्गीशतनामस्तोत्रस्य भगवान्मतङ्ग ऋषिः
अनुष्टुप् छन्दः मातङ्गी देवता मातङ्गीप्रीतये जपे विनियोगः ।
ॐ महामत्तमातङ्गिनी सिद्धिरूपा तथा योगिनी भद्रकाली रमा च ।
भवानी भवप्रीतिदा भूतियुक्ता भवाराधिता भूतिसम्पत्करी च ॥१॥

धनाधीशमाता धनागारदृष्टिर्धनेशार्चिता धीरवापीवराङ्गी ।
प्रकृष्टप्रभारूपिणी कामरूपप्रहृष्टा महाकीर्तिदा कर्णनाली ॥२॥

कराली भगा घोररूपा भगाङ्गी भगाह्वा भगप्रीतिदा भीमरूपा ।
भवानी महाकौशिकी कोशपूर्णा किशोरीकिशोरप्रियानन्द ईहा ॥३॥

महाकारणाकारणा कर्मशीला कपालिप्रसिद्धा महासिद्खण्डा ।
मकारप्रिया मानरूपा महेशी महोल्लासिनीलास्यलीलालयाङ्गी ॥४॥

क्षमाक्षेमशीला क्षपाकारिणी चाक्षयप्रीतिदा भूतियुक्ता भवानी ।
भवाराधिता भूतिसत्यात्मिका च प्रभोद्भासिता भानुभास्वत्करा च ॥५॥

धराधीशमाता धरागारदृष्टिर्धरेशार्चिता धीवराधीवराङ्गी ।
प्रकृष्टप्रभारूपिणी प्राणरूपप्रकृष्टस्वरूपा स्वरूपप्रिया च ॥६॥

चलत्कुण्डला कामिनी कान्तयुक्ता कपालाचला कालकोद्धारिणी च ।
कदम्बप्रिया कोटरीकोटदेहा क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥७॥

क्षमाङ्गी क्षयप्रेमरूपा क्षपा च क्षयाक्षा क्षयाह्वा क्षयप्रान्तरा च ।
क्षवत्कामिनी क्षारिणी क्षीरपूर्णा शिवाङ्गी च शाकम्भरी शाकदेहा ॥८॥

महाशाकयज्ञा फलप्राशका च शकाह्वा शकाह्वाशकाख्या शका च ।
शकाक्षान्तरोषा सुरोषा सुरेखा महाशेषयज्ञोपवीतप्रिया च ॥९॥

जयन्ती जया जाग्रतीयोग्यरूपा जयाङ्गा जपध्यानसन्तुष्टसंज्ञा ।
जयप्राणरूपा जयस्वर्णदेहा जयज्वालिनी यामिनी याम्यरूपा ॥१०॥

जगन्मातृरूपा जगद्रक्षणा च स्वधावौषडन्ता विलम्बाविलम्बा ।
षडङ्गा महालम्बरूपासिहस्ता पदाहारिणीहारिणी हारिणी च ॥११॥

महामङ्गला मङ्गलप्रेमकीर्तिर्निशुम्भच्छिदा शुम्भदर्पत्वहा च ।
तथाऽऽनन्दबीजादिमुक्तस्वरूपा तथा चण्डमुण्डापदामुख्यचण्डा ॥१२॥

प्रचण्डाप्रचण्डा महाचण्डवेगा चलच्चामरा चामराचन्द्रकीर्तिः ।
सुचामीकराचित्रभूषोज्ज्वलाङ्गी सुसङ्गीतगीता च पायादपायात् ॥१३॥

इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् ।
गोप्यञ्च सर्वतन्त्रेषु गोपनीयञ्च सर्वदा ॥१४॥

एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।
त्रिसन्ध्यञ्च महाभक्त्या पठनीयं सुखोदयम् ॥१५॥

न तस्य दुष्करं किञ्चिज्जायते स्पर्शतः क्षणात् ।
स्वकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥१६॥

सदैव सन्निधौ तस्य देवी वसति सादरम् ।
अयोगा ये तवैवाग्रे सुयोगाश्च भवन्ति वै ॥१७॥

त एवमित्रभूताश्च भवन्ति तत्प्रसादतः ।
विषाणि नोपसर्पन्ति व्याधयो न स्पृशन्ति तान् ॥१८॥

लूताविस्फोटकास्सर्वे शमं यान्ति च तत्क्षणात् ।
जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥१९॥

अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् ।
यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् ।
तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥२०॥

इति श्रीरुद्रयामले मातङ्गीशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP