संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्

श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीमेधादक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्
मूलमन्त्रवर्णाद्यात्मकं

श्रीदेव्युवाच -
भगवन्देवदेवेश मन्त्रार्णस्तवमुत्तमम् ।
दक्षिणामूर्तिदेवस्य कृपया वद मे प्रभो ॥१॥

श्रीमहादेव उवाच -
साधु पृष्टं महादेवि सर्वलोकहिताय ते ।
वक्ष्यामि परमं गुह्यं मन्त्रार्णस्तवमुत्तमम् ॥२॥

ऋषिश्छन्दो देवताङ्गन्यासादिकमनुत्तमम् ।
मूलमन्त्रवदस्यापि द्रष्टव्यं सकलं हि तत् ॥३॥

ध्यानम् -
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णे मुनिवरनिकरैः सेव्यमानः प्रसन्नः
स्व्याळः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥४॥

इति ध्यात्वा महादेवं मन्त्रार्णस्तवमुत्तमम् ।
जपेत् त्रिसन्ध्यं नियतो भस्मरुद्राक्षभूषितह ॥५॥

ॐ ओङ्काराचलसिंहेन्द्रः ओङ्कारध्यानकोकिलः ।
ओङ्कारनीडशुकराड् ओङ्कारार्णवकुञ्जरः ॥६॥

नगराजसुताजानिर्नगराजनिजालयः ।
नवमाणिक्यमालाढ्यो नवचन्द्रशिखामणिः ॥७॥

नन्दिताशेषमौनीन्द्रो नन्दीशादिमदेशिकः ।
मोहानलसुधासारो मोहाम्बुजसुधाकरः ॥८॥

मोहान्धकारतरणिर्मोहोत्पलनभोमणिः ।
भक्तज्ञानाब्धिशीतांशुः भक्ताज्ञानतृणानलः ॥९॥

भक्ताम्भोजसहस्रांशुः भक्तकेकिघनाघनः ।
भक्तकैरवराकेन्दुः भक्तकोकदिवाकरः ॥१०॥

गजाननादिसम्पूज्यो गजचर्मोज्ज्वलाकृतिः ।
गङ्गाधवलदिव्याङ्गो गङ्गाभङ्गलसज्जटः ॥११॥

गगनाम्बरसंवीतो गगनामुक्तमूर्धजः ।
वदनाब्जजिताब्जश्रीः वदनेन्दुस्फुरद्दिशः ॥१२॥

वरदानैकनिपुणो वरवीणोज्ज्वलत्करः ।
वनवाससमुल्लासो वनवीरैकलोलुपः ॥१३॥

तेजःपुञ्जघनाकारो तेजसामपि भासकः ।
तेजःप्रदो विनेयानां तेजोमयजनाश्रयः ॥१४॥

दमितानङ्गसङ्ग्रामो दरहासजिताङ्गनः ।
दयारससुधासिन्धुः दरिद्रधनशेवधिः ॥१५॥

क्षीरेन्दुस्फटिकाकारः क्षीणेन्दुमकुटोज्ज्वलः ।
क्षीरोपहाररसिकः क्षिप्रैश्वर्यफलप्रदः ॥१६॥

नानाभरणमुग्धाङ्गो नारीसम्मोहनाकृतिः ।
नादब्रह्मरसास्वादी नागभूषणभूषितः ॥१७॥

मूर्तिनिन्दितकन्दर्पो मूर्तामूर्तजगद्वपुः ।
मूकाज्ञानतमोभानुः मूर्तिमत्कल्पपादपः ॥१८॥

तरुणादित्यसङ्काशः तन्त्रीवादनतत्परः ।
तरुमूलैकनिलयः तप्तजाम्बूनदप्रभः ॥१९॥

तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचनः ।
यमसन्नुतसत्कीर्तिः यमसंयमसंयुतः ॥२०॥

यतिरूपधरो मौनी यतीन्द्रोपास्यविग्रहः ।
मन्दारहाररुचिरो मदनायुतसुन्दरः ॥२१॥

मन्दस्मितलसद्वक्त्रो मधुराधरपल्लवः ।
मञ्जीरमञ्जुपादाब्जो मणिपट्टोलसत्कटिः ॥२२॥

हस्ताङ्कुरितचिन्मुद्रो हठयोगपरोत्तमः ।
हंसजप्याक्षमालाढ्यो हंसेन्द्राराध्यपादुकः ॥२३॥

मेरुशृङ्गतटोल्लासो मेघश्याममनोहरः ।
मेधाङ्कुरालवालाग्र्यो मेधपक्वफलद्रुमः ॥२४॥

धार्मिकान्तर्गुहावासो धर्ममार्गप्रवर्तकः ।
धामत्रयनिजारामो धर्मोत्तममनोरथः ॥२५॥

प्रबोधोदारदीपश्रीः प्रकाशितजगत्त्रयः ।
प्रज्ञाचन्द्रशिलादर्शः प्रज्ञामणिवराकरः ॥२६॥

ज्ञानान्तरभासात्मा ज्ञातृज्ञातिविदूरगः ।
ज्ञानाद्वैतसुदिव्याङ्गो ज्ञातृज्ञातिकुलागतः ॥२७॥

प्रपन्नपारिजाताग्र्यः प्रणतार्त्यब्धिवाडवः ।
प्रमाणभूतो भूतानां प्रपञ्चहितकारकः ॥२८॥

यत्तत्वमसिसंवेद्यो यक्षगेयात्मवैभवः ।
यज्ञादिदेवतामूर्तिः यजमानवपुर्धरः ॥२९॥

छत्राधिपतिविश्वेशः छत्रचामरसेवितः ।
छान्दश्शास्त्रादिनिपुणश्छलजात्यादिदूरगः ॥३०॥

स्वाभाविकसुखैकात्मा स्वानुभूतरसोदधिः ।
स्वाराज्यसम्पदध्यक्षः स्वात्माराममहामतिः ॥३१॥

हाटकाभजटाजूटो हासोदस्तारमण्डलः ।
हालाहलोज्ज्वलगळो हारायुतमनोहरः ॥३२॥

इति श्रीमेधादक्षिणामूर्तिमनुवर्णाद्यादिमा
श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP