संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
रामानुजाष्टोत्तरशतनामस्तोत्रम्

रामानुजाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


ॐ श्रीमते रामानुजाय नमः ॥

ॐ रामानुजः पुष्कराक्षो यतीन्द्रः करुणाकरः ।
कान्तिमत्यात्मजः श्रीमाँल्लीलामानुषविग्रहः ॥१॥

सर्वशास्त्रार्थतत्त्वज्ञः सर्वज्ञः सज्जनप्रियः ।
हारीतगोत्रतिलकः श्रीभूतपुरपालकः ॥२॥

अनघो भक्तमन्दारः केशवानन्दवर्धनः ।
काञ्चीपूर्णप्रियसखः प्रणतार्तिविनाशकः ॥३॥

पुण्यसङ्कीर्तनः पुण्योब्रह्मराक्षसमोचकः ।
यादवापादितापार्थवृक्षच्छेदकुठारकः ॥४॥

अमोघो लक्ष्मणमुनिः शारदाशोकनाशकः ।
निरन्तरजनाज्ञानविमोचनविचक्षणः ॥५॥

वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः ।
पराभिप्रायतत्त्वज्ञो यामुनाङ्गुलिमोचकः ॥६॥

देवराजकृपालब्धषड्वाक्यार्थमहोदधिः ।
पूर्णार्यलब्धसन्मन्त्रः शौरिपादाब्जषट्पदः ॥७॥

त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मध्यानपरायणः ।
रङ्गेशकैङ्कर्यरतो विभूतिद्वयनायकः ॥८॥

गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकः ।
वररङ्गानुकम्पात्तद्राविडाम्नायपारगः ॥९॥

मालाधगयसुज्ञात द्राविडाम्नायतत्त्वधीः ।
चतुस्सप्ततिशिष्याढ्यः पञ्चाचार्यपदाश्रयः ॥१०॥

प्रपीतविषतीर्थाम्भः प्रकटीकृतवैभवः ।
प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनः ॥११॥

पवित्रीकृतकूरेश भागिनेयत्रिदण्डकः ।
कूरेशदासरथ्यादिचरमार्थप्रदायकः ॥१२॥

रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवः ।
देवराजार्चनरतो मूकमुक्तिप्रदायकः ॥१३॥

यज्ञमूर्तिप्रतिष्ठाता मन्नाथो धरणीधरः ।
वरदाचार्येसद्भक्तो यज्ञेशार्तिविनाशकः ॥१४॥

अनन्ताभीष्टफलदो विठ्ठलेशप्रपूजितः ।
श्रीशैलपूर्णकरुणालब्धरामायणार्थकः ॥१५॥

प्रपत्तिधर्मैकरतो गोविन्दार्यप्रियानुजः ।
व्याससूत्रार्थतत्त्वज्ञो बोधायनमतानुगः ॥१६॥

श्रीभाष्यादिमहाग्रन्थकारकः कलिनाशनः ।
अद्वैतमतविच्छेत्ता विशिष्टाद्वैतपारगः ॥१७॥

कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकः ।
विनाशिताखिलमतश्शेषीकृतरमापतिः ॥१८॥

पुत्रीकृतशठारातिश्शठजिदृणमोचकः ।
भाषादत्तहयग्रीवो भाष्यकारो महायशाः ॥१९॥

पवित्रीकृतभूभागः कूर्मनाथप्रकाशकः ।
श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकः ॥२०॥

श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशिकः ।
कृपामात्रप्रसन्नार्यो गोपिकामोक्षदायकः ॥२१॥

समीचीनार्यसच्छिष्यसत्कृतो वैष्णवप्रियः ।
कृमिकण्ठनृपध्वंसी सर्वमन्त्रमहोदधिः ॥२२॥

अङ्गीकृतान्ध्रपूर्णार्यस्सालग्रामप्रतिष्ठितः ।
श्रीभक्तग्रामपूर्णाढ्य विष्णुवर्धनरक्षकः ॥२३॥

बौद्धध्वान्तसहस्रांशुःशेषरूपप्रदर्शकः ।
नगरीकृतवेदाद्रिर्ढिल्लीश्वरसमर्थितः ॥२४॥

नारायणप्रतिष्ठाता सम्पत्पुत्रविमोचकः ।
सम्पत्कुमारजनकः साधुलोकशिखामणिः ॥२६॥

सुप्रतिष्ठितगोविन्दराजः पूर्णमनोरथः ।
गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥२६॥

सर्वसंशयविच्छेत्ता विष्णुलोकप्रदायकः ।
अव्याहतमहद्वर्मा यतिराजो जगद्गुरुः ॥२७॥

एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम् ।
यः पठेच्छृणुयाद्वापि सर्वान्कामान्समश्नुते ॥२८॥

यदान्ध्रपूर्णेन महात्मनेदं
स्तोत्रं कृतं सर्वजनावनाय ।
तज्जीवभूतं भुवि वैष्णवानां
बभूव रामानुजमात्तसानाम् ॥२९॥

इति श्रीमद्रामानुजाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP