श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
रामो राजाटवीवह्नि रामचन्द्रप्रसादकः ।
राजरक्तारुणस्नातो राजीवायतलोचनः ॥१॥
रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी ।
रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥२॥
राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमः ।
राताखिलरसो रक्तकृतपैतृकतर्पणः ॥३॥
रत्नाकरकृतावासो रतीशकृतविस्मयः ।
रागहीनो रागदूरो रक्षितब्रह्मचर्यकः ॥४॥
राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवान् ।
राजद्भृगुकुलाम्बोधिचन्द्रमा रञ्जितद्विजः ॥५॥
रक्तोपवीतो रक्ताक्षो रक्तलिप्तो रणोद्धतः ।
रणत्कुठारो रविभूदण्डायित महाभुजः ॥६॥
रमानाधधनुर्धारी रमापतिकलामयः ।
रमालयमहावक्षा रमानुजलसन्मुखः ॥७॥
रसैकमल्लो रसनाऽविषयोद्दण्ड पौरुषः ।
रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयः ॥८॥
रोषानलमयाकारो रेणुकापुनराननः ।
राधेयचातकाम्भोदो रुद्धचापकलापगः ॥९॥
राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकः ।
रामचन्द्रन्यस्ततेजा राजशब्दार्धनाशनः ॥१०॥
राद्धदेवद्विजव्रातो रोहिताश्वाननार्चितः ।
रोहिताश्वदुराधर्षो रोहिताश्वप्रपावनः ॥११॥
रामनामप्रधानार्धो रत्नाकरगभीरधीः ।
राजन्मौञ्जीसमाबद्ध सिंहमध्यो रविद्युतिः ॥१२॥
रजताद्रिगुरुस्थानो रुद्राणीप्रेमभाजनम् ।
रुद्रभक्तो रौद्रमूर्ती रुद्राधिकपराक्रमः ॥१३॥
रविताराचिरस्थायी रक्तदेवर्षिभावनः ।
रम्यो रम्यगुणो रक्तो रातभक्ताखिलेप्सितः ॥१४॥
रचितस्वर्णसोपानो रन्धिताशयवासनः ।
रुद्धप्राणादिसञ्चारो राजद्ब्रह्मपदस्थितः ॥१५॥
रत्नसूनुमहाधीरो रसासुरशिखामणिः ।
रक्तसिद्धी रम्यतपा राततीर्थाटनो रसी ॥१६॥
रचितभ्रातृहननो रक्षितभातृको रणी ।
राजापहृततातेष्टिधेन्वाहर्ता रसाप्रभुः ॥१७॥
रक्षितब्राह्म्यसाम्राज्यो रौद्राणेयजयध्वजः ।
राजकीर्तिमयच्छत्रो रोमहर्षणविक्रमः ॥१८॥
राजशौर्यरसाम्भोधिकुम्भसम्भूतिसायकः ।
रात्रिन्दिवसमाजाग्र त्प्रतापग्रीष्मभास्करः ॥१९॥
राजबीजोदरक्षोणीपरित्यागी रसात्पतिः ।
रसाभारहरो रस्यो राजीवजकृतक्षमः ॥२०॥
रुद्रमेरुधनुर्भङ्ग कृद्धात्मा रौद्रभूषणः ।
रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलः ॥२१॥
रामाभिन्नो रुद्रमयो रामरुद्रो भयात्मकः ।
रामपूजितपादाब्जो रामविद्वेषिकैतवः ॥२२॥
रामानन्दो रामनामो रामो रामात्मनिर्भिदः ।
रामप्रियो रामतृप्तो रामगो रामविश्रमः ॥२३॥
रामज्ञानकुठारात्त राजलोकमहातमाः ।
रामात्ममुक्तिदो रामो रामदो राममङ्गलः ॥२४॥
मङ्गलं जामदग्न्याय कार्तवीर्यार्जुनच्छिदे ।
मङ्गलं परमोदार सदा परशुराम ते ॥२५॥
मङ्गलं राजकालाय दुराधर्षाय मङ्गलम् ।
मङ्गलं महनीयाय जामदग्न्याय मङ्गलम् ॥२६॥
जमदग्नि तनूजाय जिताखिलमहीभृते ।
जाज्वल्यमानायुधाय जामदग्न्याय मङ्गलम् ॥२७॥
॥ इति रामेणकृतं पराभवाब्दे वैशाखशुद्ध त्रितीयायां
परशुराम जयन्त्यां रकारादि श्री परशुरामाष्टोत्तरशतम्
श्री हयग्रीवाय समर्पितम् ॥
N/A
References : N/A
Last Updated : December 25, 2025

TOP