संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
गणेशाष्टोत्तरशतनामस्तोत्रम्

गणेशाष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


श्रीशिव उवाच -
काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः ।
तच्छान्त्यर्थं दुण्ढिराजः पूजनीयः प्रयत्नतः ॥५०॥

अष्टोत्तरशतं दिव्यैर्गणेशस्यैव नामभिः ।
कर्तव्यमतियत्नेन नवदूर्वाङ्कुरार्पणम् ॥५१॥

हिरण्मयतनुं शुद्धं सर्वार्तिहरमव्ययम् ।
वरदं गणपं ध्यात्वा पूजा कार्या प्रयत्नतः ॥५२॥

ऋषिर्विघ्नेश इत्यादिनाम्नां सर्वेश्वरः शिवः ।
देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम् ॥५३॥

सर्वप्रत्यूहशमनं फलं शक्तिः सुधात्मिका ।
कीलकं गणनाथस्य पूजा कार्येति कामदा ॥५४॥

अथ नामावलिः ।
ॐ विघ्नेशो विश्ववरदो विश्वचक्षुर्जगत्पतिः ।  
हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः ॥५५॥

सर्वज्ञः सर्वगः शान्तो गजास्यो विगतज्वरः ।
विश्वमूर्तिरमेयात्मा विश्वाधारः सनातनः ॥५६॥

सामगानप्रियो मन्त्री सत्त्वाधारः सुराधिपः ।
समस्तसाक्षी निर्द्वन्द्वो निर्लिप्तोऽमोघविक्रमः ॥५७॥

नियतो निर्मलः पुण्यकामदः कान्तिदः कविः ॥५८॥

कामरूपी कामवेषो कमलाक्षः कलाधरः ।
सुमुखः सर्वदः शुद्धो मूषिकाधिपवाहनः ॥५९॥  

दीर्घतुण्डघनुः श्रीमाननन्तो मोहवर्जितः ।
वक्रतुण्डः शूर्पकर्णो परमं पावनेश्वरः ॥६०॥  

योगीशो योगवन्द्याङ्घ्रिरुमाजनुरयापहः ।
एकदन्तो महाग्रीवः शरण्यः सिद्धसेवितः ॥६१॥

सिद्धिदः करुणासिन्धुः भगवान् भव्यविग्रहः ।
विकटः कपिलो ढुण्ढिरुग्रो भीमोदरः शुभः ॥६२॥  

गणाध्यक्षो गणाराध्यो गणेशो गणनायकः ।
ज्योतिःस्वरूपो भूतात्मा धूमकेतुरनाकुलः ॥६३॥

कुमारगुरुरानन्दो हेरम्बो वेदसंस्तुतः ।
नागोपवीती दुर्धर्षो बालदूर्वाङ्कुरप्रियः ॥६४॥

भालचन्द्रो विश्वधामा शिवपुत्रो विनायकः ।
लीलावलम्बितवपुः पूर्णः परमसुन्दरः ॥६५॥

विघ्नान्धकारमार्ताण्डो विघ्नारण्यदवानलः ।
सिन्धूरवदनो नित्यो प्रभुः प्रथमपूजितः ॥६६॥

शरण्यदिव्यपादाब्जो भक्तमन्दारभूरुहः ।
रत्नसिह्मासनासीनो मणिकुण्डलमण्डितः ॥६७॥

भक्तकल्याणदोऽमेयः कल्याणगुणसंश्रयः ।
एतानि दिव्यनामानि गणेशस्य महात्मनः ॥६८॥

पठनीयानि यत्नेन सर्वथा सर्वदेहिभिः ।  
नाम्नामेकैकमेतेषां सर्वसिद्धिप्रदायकम् ॥६९॥

अथ उपदेशः
सर्वविघ्नेश नाम्नां तु फलं वक्तुं न शक्यते ।
एकैकमेव तन्नाम दिव्यं जप्त्वा मुनीश्वराः ॥७०॥

प्रत्यूहमात्ररहितास्तिष्ठन्ति शिवपूजकाः ।
दूर्वायुग्मानि सङ्गृह्य नूतनान्यतियत्नतः ॥७१॥

पूजनीयो गणाध्यक्षो नाम्नामेकैकसङ्ख्यया ।
नभस्यशुक्लपक्षस्य चतुर्थ्यां विधिपूर्वकम् ॥७२॥

वक्रतुण्डेशकुण्डे तु स्नानं कृत्वा प्रयत्नतः ।
वक्रतुण्डेशमाराध्य सर्वाभीष्टप्रदायकम् ॥७३॥

ध्यायेदघहरं शुद्धकाञ्चनाभमनामयम् ।
ततः पूजां यथाशास्त्रं कृत्वा दूर्वाङ्कुरैर्नवः ॥७४॥

पूजा कार्या विशेषेण नामोच्चारणपूर्वकम् ।
ततश्च मोदकैदिव्यैः सुगन्धिघृतपाचितैः ॥७५॥

नैवेद्यं कल्पयेद्दिव्यंः गणेशाय शुभावहम् ।
अन्यैश्च परमान्नाद्यैर्भक्ष्यैर्भोज्यैर्मनोहरैः ॥७६॥

तोषणीयः प्रयत्नेन वक्रतुण्डविनायकः ।
प्रदक्षिणनमस्कारैर्दिव्यैस्तन्नामसङ्ख्यया ॥७७॥

कर्तव्या नियतं शुद्धैर्मौनव्रतपरायणः ।
ततः सन्तर्प्य विधिच्छैवान्ब्राह्मणसम्भावान् ॥७८॥

पुनरभ्यर्च्य विघ्नेशमिमं मन्त्रमुदीरयेत् ॥७९॥

अथ मन्त्रः
वक्रतुण्ड सुराराध्य सूर्यकोटिसमप्रभ ।
निर्विघ्नेनैव सततं काशीवासं प्रयच्छ मे ॥८०॥

इति सम्प्रार्थ्य विधिवत्पूजां कृत्वा पुनर्मुदा ।
नमस्कृत्वा प्रसाद्यैनं गच्छेड्ढुण्ढिविनायकम् ॥८१॥

ढुण्ढिराजार्चनं सम्यक्कर्तव्यं विधिपूर्वकम् ।
तत्रैवार्चाविशेषेण पूजां कृत्वा ततः परम् ॥८२॥

॥ इति शिवरहस्यान्तर्गते गणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

- ॥श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । ५०-८२॥

N/A

References : N/A
Last Updated : December 22, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP