संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
पकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्

पकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


पूज्यः पूर्णः प्रदीप्तात्मा पूर्णेन्दुः प्रियभूषणः ।
परब्रह्मस्वरूपश्च पराशुभविनाशकः ॥१॥

पितृसन्तोषकर्त्ता च पितृवचनपालकः ।
पितृमानप्रदश्चैव पितृरिपुविघातकः ॥२॥

पितृतर्पणसन्तुष्टः पञ्चस्यमन्तकव्रतः ।
पितृमोक्षप्रदश्चैव पितृकुलप्रमोदकः ॥३॥

पवित्रः पवनः पारः पुण्यापुण्यफलप्रदः ।
पङ्क्तिपावननामापि पिनाकपाणि पाटलः ॥४॥

पतितक्षत्रवंशघ्नः पिशुनकुलघातकः ।
पितामहः पुरीजेता पशुपाशप्रभेदकः ॥५॥

पयोव्रती प्रतापी च प्रतिनिधिः प्रसादनः ।
पुरोहितः प्रसन्नात्मा पद्मार्चितः पुरन्धरः ॥६॥

पश्यकेष्टप्रदाता च पृथ्विदानपरायणः ।
पार्थिववृन्दजिष्णुर्वा परब्रह्मस्वरूपकः ॥७॥

पशुपतिः प्रकृष्टश्च प्रभवः परमेश्वरः ।
पुराणः पण्डितः पूतः परमवीरतोषकः ॥८॥

परन्तपः परीक्षितः परमपददायकः ।
परसैन्यदलच्छेत्ता परशस्त्रास्त्रभेदकः ॥९॥

प्रथितयशसामग्र्यः प्रथितः प्रणताश्रयः ।
पाटलाक्षः पुरोधा च पतितोद्धारकारकः ॥१०॥

परशुरामः प्रख्यातः परासवविशोषकः ।
पृथ्विक्रमणगन्तापि परयोधनतत्परः ॥११॥

पञ्चमः पद्मरेखावान् पक्ष्मलः परमेष्टदः ।
प्रभुः पचपचस्तोता परिचयः पराक्रमः ॥१२॥

पिता पञ्चमहायज्ञः पद्यगद्यसुलेखकः ।
प्रपङ्क्तिग्रीवदर्पघ्नः पञ्चाननः प्रतिष्ठितः ॥१३॥

परिपक्वः प्रमाणज्ञः प्रेमाकृष्टः पुरातनः ।
प्रणवः परिकाङ्क्षितः पटुः पर्वतवेधकः ॥१४॥

पृथ्विपतिः परिख्यातः प्रगल्भः पारिकाङ्क्षितः ।
पञ्चविंशतितत्त्वज्ञः पञ्चवल्कलभूषितः ॥१५॥

पञ्चनीराजनप्रीतः पूतात्मा पुष्करेक्षणः ।
प्रतिवादिमुखस्तम्भः पराचितिप्रसादकः ॥१६॥

पीताम्बरः परिज्ञानी परलोकहितावहः ।
पाता पुरुषशार्दूलः प्रचण्डः पार्वणप्रियः ॥१७॥

पिशङ्गः पूर्णिमापूज्यः प्रतिनिधिः पिशङ्गकः ।
पूज्यपूज्यस्य नामानि पापराशिहराणि च ॥१८॥

अष्टोत्तरशतं जप्त्वा ब्रह्मलोके महीयते ।

इति हरियाणा प्रदेशे जयन्तपुरीमण्डलान्तर्गत नगूराङ्ग्रामवासिना
कृष्णचन्द्रशास्त्रिणा विरचितं पकारादि
श्रीपरशुरामाष्टोत्तरनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP