संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्

श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीपूर्णापुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः ॥

ध्यानम् -
कल्हारोज्ज्वल नीलकुन्तलभरं कालाम्बुद श्यामलं
 कर्पूराकलिताभिरामवपुषं कुन्देन्दुबिम्बाननम् ।
श्रीदण्डाङ्कुश-पाश-शूल-विलसत्पाणिं मदान्त-
 द्विपारूढं शत्रुविमर्दनं हृदि महाशास्तारमाद्यं भजे ॥

ॐ महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्तापरात्परः ॥१॥

त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥२॥

लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिम्हारूढो गजारूढो हयारूढो महेश्वरः ॥३॥

नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥४॥

भूतेशो भूतिदो भृत्यो भुजङ्गाभरणोज्ज्वलः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥५॥

मायादेवीसुतो मान्यो महनीयो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥६॥

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः ।
मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥७॥

वेदो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥८॥

वेदशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥९॥

सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥१०॥

ऋग्यजुःसामाथर्वात्मा मल्लकासुरभञ्जनः ।
त्रिमूर्तिर्दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥११॥

कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥१२॥

संसारतापविच्छेत्ता पशुलोकभयङ्करः ।
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥१३॥

सर्वशास्त्रार्थ तत्त्वज्ञो नीतिमान् पापभञ्जनः ।
पुष्कलापूर्णासंयुक्तः परमात्मा सताङ्गतिः ॥१४॥

अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।
भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥

इति श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP