संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
व्यासाष्टोत्तरशतनामस्तोत्रम्

व्यासाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


॥ ध्यानम् ॥

अभ्र-श्यामः पिङ्ग-जटा-बद्ध-कलापः
प्रांशुर्दण्डीकृष्णमृग-त्वक्-परिधानः ।
सर्वान् लोकान् पावयमानः कवि-मुख्यः
पाराशर्यः पर्व-सुरूपं विवृणोतु ॥१॥

व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥२॥

कृष्ण-द्वैपायनं व्यासं सर्व-भूत-हितेरतम् ।
वेदाब्ज-भास्करं वन्दे शमादि-निलयं मुनिम् ॥३॥

अथ स्तोत्रम् ।
ॐ नारायणकुलोद्भूतो नारायणपरो वरः ।
नारायणावतारश्च नारायणवशंवदः ॥१॥

स्वयम्भूवंशसम्भूतो वसिष्ठकुलदीपकः ।
शक्तिपौत्रः पापहन्ता पराशरसुतोऽमलः ॥२॥

द्वैपायनो मातृभक्तः शिष्टः सत्यवतीसुतः ।
स्वयमुद्भूतवेदश्च चतुर्वेदविभागकृत् ॥३॥

महाभारतकर्ता च ब्रह्मसूत्रप्रजापतिः ।
अष्टादशपुराणानां कर्ता श्यामः प्रशिष्यकः ॥४॥

शुकतातः पिङ्गजटः प्रांशुर्दण्डीमृगाजिनः ।
वश्यवाग् ज्ञानदाता च शङ्करायुःप्रदः शुचिः ॥५॥

मातृवाक्यकरो धर्मी कर्मी तत्त्वार्थ दर्शकः ।
सञ्जयज्ञानदाता च प्रतिस्मृत्युपदेशकः ॥६॥

सर्वधर्मोपदेष्टा च मृतदर्शनपण्डितः ।
विचक्षणः प्रहृष्टात्मा पर्वपूज्यः प्रभुर्मुनिः ॥७॥

वीरो विश्रुतविज्ञानः प्राज्ञश्चाज्ञाननाशनः ।
ब्राह्मकृत् पाद्मकृद् धीरो विष्णुकृच्छिवकृत् तथा ॥८॥

श्रीभागवतकर्ता च भविष्यरचनादरः ।
नारदाख्स्य कर्ता च मार्कण्डेयकरोऽग्निकृत् ॥९॥

ब्रह्मवैवर्तकर्ता च लिङ्गकृच्च वराहकृत् ।
स्कान्दकर्ता वामनकृत् कूर्मकर्ता च मत्स्यकृत् ॥१०॥

गरुडाख्यस्य कर्ता च ब्रह्माण्डाख्यपुराणकृत् ।
उपपुराणानां कर्ता पुराणः पुरुषोत्तमः ॥११॥

काशिवासी ब्रह्मनिधिर्गीतादाता महामतिः ।
सर्वज्ञः सर्वसिद्धिश्च सर्वशास्त्रप्रवर्तकः ॥१२॥

सर्वाश्रयः सर्वहितः सर्वः सर्वगुणाश्रयः ।
विशुद्धः शुद्धिकृद् दक्षो विष्णुभक्तः शिवार्चकः ॥१३॥

देवीभक्तः स्कन्दरुचिर्गणेशादृच्च योगवित् ।
पैलाचार्य रुचः कर्ता शाकल्यार्यश्च याजुषः ॥१४॥

जैमिन्यार्यः सामकर्ता सुमन्त्वार्योऽप्यथर्वकृत् ।
रोमहर्षणसूतार्यो लोकाचार्यो महामुनिः ॥१५॥

व्यासकाशीरतिर्विश्वपूज्यो विश्वेशपूजकः ।
शान्तः शान्ताकृतिः शान्तचित्तः शान्तिप्रदस्तथा ॥१६॥

 ॥इति व्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 28, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP