संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीलक्ष्मीनारायणाष्टोत्तरशतनामस्तोत्रम्

श्रीलक्ष्मीनारायणाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीर्विष्णुः कमला शार्ङ्गी लक्ष्मीर्वैकुण्ठनायकः ।
पद्मालया चतुर्बाहुः क्षीराब्धितनयाऽच्युतः ॥१॥

इन्दिरा पुण्डरीकाक्षा रमा गरुडवाहनः ।
भार्गवी शेषपर्यङ्को विशालाक्षी जनार्दनः ॥२॥

स्वर्णाङ्गी वरदो देवी हरिरिन्दुमुखी प्रभुः ।
सुन्दरी नरकध्वंसी लोकमाता मुरान्तकः ॥३॥

भक्तप्रिया दानवारिः अम्बिका मधुसूदनः ।
वैष्णवी देवकीपुत्रो रुक्मिणी केशिमर्दनः ॥४॥

वरलक्ष्मी जगन्नाथः कीरवाणी हलायुधः ।
नित्या सत्यव्रतो गौरी शौरिः कान्ता सुरेश्वरः ॥५॥

नारायणी हृषीकेशः पद्महस्ता त्रिविक्रमः ।
माधवी पद्मनाभश्च स्वर्णवर्णा निरीश्वरः ॥६॥

सती पीताम्बरः शान्ता वनमाली क्षमाऽनघः ।
जयप्रदा बलिध्वंसी वसुधा पुरुषोत्तमः ॥७॥

राज्यप्रदाऽखिलाधारो माया कंसविदारणः ।
महेश्वरी महादेवो परमा पुण्यविग्रहः ॥८॥

रमा मुकुन्दः सुमुखी मुचुकुन्दवरप्रदः ।
वेदवेद्याऽब्धि-जामाता सुरूपाऽर्केन्दुलोचनः ॥९॥

पुण्याङ्गना पुण्यपादो पावनी पुण्यकीर्तनः ।
विश्वप्रिया विश्वनाथो वाग्रूपी वासवानुजः ॥१०॥

सरस्वती स्वर्णगर्भो गायत्री गोपिकाप्रियः ।
यज्ञरूपा यज्ञभोक्ता भक्ताभीष्टप्रदा गुरुः ॥११॥

स्तोत्रक्रिया स्तोत्रकारः सुकुमारी सवर्णकः ।
मानिनी मन्दरधरो सावित्री जन्मवर्जितः ॥१२॥

मन्त्रगोप्त्री महेष्वासो योगिनी योगवल्लभः ।
जयप्रदा जयकरः रक्षित्री सर्वरक्षकः ॥१३॥

अष्टोत्तरशतं नाम्नां लक्ष्म्या नारायणस्य च ।
यः पठेत् प्रातरुत्थाय सर्वदा विजयी भवेत् ॥१४॥

इति श्री लक्ष्मीनारायणाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP