संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम्

अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


श्रीगणेशाय नमः ॥

ॐ चामुण्डिकाम्बा श्रीकण्ठः पार्वती परमेश्वरः ।
महाराज्ञीमहादेवस्सदाराध्या सदाशिवः ॥१॥

शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः ।
शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥२॥

कामकोटिसुपीठस्था काशीक्षेत्रसमाश्रयः ।
दाक्षायणी दक्षवैरी शूलिनि शूलधारकः ॥३॥

ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् ।
श्रीमदग्नेशजननी षडाननसुजन्मभूः ॥४॥

पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभ्रृत् ।
चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहरः ॥५॥

सिंहवाहा वृषारूढः श्यामाभा स्फटिकप्रभः ।
महिषासुरसंहर्त्री गजासुरविमर्दनः ॥६॥

महाबलाचलावासा महाकैलासवासभूः ।
भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥७॥

भण्डासुरादिसंहर्त्री दुष्टान्धकविमर्दनः ।
मधुकैटभसंहर्त्री मधुरापुरनायकः ॥८॥

कालत्रयस्वरूपाढ्या कार्यत्रयविधायकः ।
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥९॥

विशालाक्षी विश्वनाधः पुष्पास्त्रा विष्णुमार्गणः ।
कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥१०॥

मूलप्रकृतिरूपाढ्या परब्रह्मस्वरूपवान् ।
रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥११॥

मनोरूपेक्षुकोदण्ड महामेरुधनुर्धरः ।
चन्द्रचूडा चन्द्रमौलिर्महामाया महेश्वरः ॥१२॥

महाकाली महाकालो दिव्यरूपा दिगम्बरः ।
बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥१३॥

हरिद्राकुङ्कुमालिप्ता भस्मोद्धूलितविग्रहः ।
महापद्माटवीलोला महाबिल्वाटवीप्रियः ॥१४॥

सुधामयी विषधरो मातङ्गी मुकुटेश्वरः ।
वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥१५॥

जगन्मयी जगद्रूपो मृडानी मृत्युनाशनः ।
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥१६॥

रमावाणीसुसंसेव्या विष्णुब्रह्मसुसेवितः ।
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ॥१७॥

चिदग्निकुण्डसम्भूता महालिङ्गसमुद्भवः ।
कम्बुकण्ठी कालकण्ठी वज्रेशी वज्रपूजितः ॥१८॥

त्रिकण्टकी त्रिभङ्गीशः भस्मरक्षा स्मरान्तकः ।
हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः ॥१९॥

चिन्तामणिगृहावासा मन्दराचलमन्दिरः ।
विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥२०॥

मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता ।
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥२१॥

श्रीचक्रात्मरथारूढा धरणीधरसंस्थितः
श्रीविद्यावेद्यमहिमा निगमागमसंश्रयः ॥२२॥

दशशीर्षसमायुक्ता पञ्चविंशतिशीर्षवान् ।
अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः ॥२३॥

ब्राह्म्यादिमातृकारूपा शताष्टेकादशात्मवान् ।
स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥२४॥

शिवा शिवश्च रुद्राणी रुद्रश्छैवेश्वरीश्वरः ।
कदम्बकाननावासा दारुकारण्यलोलुपः ॥२५॥

नवाक्षरीमनुस्तुत्या पञ्चाक्षरमनुप्रियः ।
नवावरणसम्पूज्या पञ्चायतनपूजितः ॥२६॥

देहस्थषट्चक्रदेवी दहराकाशमध्यगः ।
योगिनीगणसंसेव्या भृङ्ग्यादिप्रमथावृतः ॥२७॥

उग्रतारा घोररूपश्शर्वाणी शर्वमूर्तिमान् ।
नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥२८॥

ज्वलज्जिह्वा ज्वलन्नेत्रो दण्डनाथा दृगायुधः ।
पार्थाञ्जनास्त्रसन्दात्री पार्थपाशुपतास्त्रदः ॥२९॥

पुष्पवच्चक्रताटङ्का फणिराजसुकुण्डलः ।
बाणपुत्रीवरोद्धात्री बाणासुरवरप्रदः ॥३०॥

व्यालकञ्चुकसंवीता व्यालयज्ञोपवीतवान् ।
नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥३१॥

नाट्यप्रिया नाट्यमूर्तिस्त्रिसन्ध्या त्रिपुरान्तकः ।
तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ॥३२॥

नववल्लीष्टवरदा नववीरसुजन्मभूः ।
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥३३॥

निशुम्भशुम्भदमनी नीचापस्मारमर्दनः ।
सहस्राम्बुजारूढा सहस्रकमलार्चितः ॥३४॥

गङ्गासहोदरी गङ्गाधरो गौरी त्र्यम्बकः ।
श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥३५॥

भवतापप्रशमनी भवरोगनिवारकः ।
चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥३६॥

प्रत्यङ्गिरा प्रसन्नात्मा कामेशी कामरूपवान् ।
स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥३७॥

सदान्नपूर्णा भिक्षाटो वनदुर्गा वसुप्रदः ।
सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥३८॥

सर्वमङ्गलरूपाढ्या सर्वकल्याणदायकः ।
राजेराजेश्वरी श्रीमद्राजराजप्रियङ्करः ॥३९॥

अर्धनारीश्वरस्येदं नाम्नामष्टोत्तरं शतम् ।
पठन्नर्चन्सदा भक्त्या सर्वसाम्राज्यमाप्नुयात् ॥४०॥

इति स्कान्दमहापुराणे अर्धनीरीश्वर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP