श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीनृसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेव उपेन्द्रश्चाऽग्निलोचनः ॥१॥
रौद्रश्शौरिर्महावीरस्सुविक्रम-पराक्रमः ।
हरिकोलाहलश्चक्री विजयश्चाजयोऽव्ययः ॥२॥
दैत्यान्तकः परब्रह्माप्यघोरो घोरविक्रमः ।
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥३॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञो हिरण्यकनिषूधनः ॥४॥
चण्डकोपी सुरारिघ्नस्सदार्तिघ्न-सदाशिवः ।
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥५॥
कराळो विकराळश्च गतायुस्सर्वकर्तृकः ।
भैरवाडंबरो दिव्यश्चागम्यस्सर्वशत्रुजित् ॥६॥
अमोघास्त्रश्शस्त्रधरः सव्यजूटस्सुरेश्वरः ।
सहस्रबाहुर्वज्रनखस्सर्वसिद्धिर्जनार्दनः ॥७॥
अनन्तो भगवान् स्थूलश्चागम्यश्च परावरः ।
सर्वमन्त्रैकरूपश्च सर्वयन्त्रविधारणः ॥८॥
अव्ययः परमानन्दः कालजित् खगवाहनः ।
भक्तातिवत्सलोऽव्यक्तस्सुव्यक्तस्सुलभश्शुचिः ॥९॥
लोकैकनायकस्सर्वश्शरणागतवत्सलः ।
धीरो धरश्च सर्वज्ञो भीमो भीमपराक्रमः ॥१०॥
देवप्रियो नुतः पूज्यो भवहृत् परमेश्वरः ।
श्रीवत्सवक्षाः श्रीवासो विभुस्सङ्कर्षणः प्रभुः ॥११॥
त्रिविक्रमस्त्रिलोकात्मा कामस्सर्वेश्वरेश्वरः ।
विश्वंभरः स्थिराभश्चाऽच्युतः पुरुषोत्तमः ॥१२॥
अधोक्षजोऽक्षयस्सेव्यो वनमाली प्रकंपनः ।
गुरुर्लोकगुरुस्स्रष्टा परंज्योतिः परायणः ॥१३॥
ज्वालाहोबिलमालोल-क्रोडाकारञ्जभार्गवाः ।
योगनन्दश्चत्रवटः पावनो नवमूर्तयः ॥१४॥
॥इति श्री नृसिंहाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
N/A
References : N/A
Last Updated : December 25, 2025

TOP