श्रीशिवाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ॐ श्रीकण्ठो वरदः शर्व आशुतोष उमापतिः ।
दयानिधिर्महादेवो भवो भवहरो हरः ॥१॥
मदनारिस्त्रिनयनः शङ्करः सुकविः शिवः ।
विभुः प्रभुर्वृषरथो विवेकी विशदो वशी ॥२॥
ललाटाक्षः कालकालः शरण्यश्चन्द्रशेखरः ।
पुरारातिः श्रितहितो देवदेवः सदाशिवः ॥३॥
शान्त उग्रः समः श्रेष्ठो भूतेशो भव्यविग्रहः ।
परमेशः परानन्दः परिपूर्णः पदप्रदः ॥४॥
मधुरो महितः शम्भुर्गिरीशो गिरिशो मृडः ।
अजः पिनाकी प्रवरः प्रबलः प्रमथाधिपः ॥५॥
मानदः पञ्चवदनो दशबाहुर्दिगम्बरः ।
शूली कपाली सुमुखो मृगपाणिर्जटाधरः ॥६॥
शाश्वतोऽतिमहाः स्वामी गिरिधन्वा गुरूत्तमः ।
रुद्रो जयप्रदो जेता भुजगाभूषणोऽव्ययः ॥७॥
पुराणः पुण्डरीकाक्षप्रियः प्रणव उद्धवः ।
कर्पूरगौरः सुतपाः सामतुष्टः प्रजापतिः ॥८॥
महाव्रतः सुरमणिः सत्यसन्धो विनायकः ।
अन्धकारातिरजितः सदोदारो निरञ्जनः ॥९॥
दीनबन्धुर्दक्षहन्ता विरागो नीललोहितः ।
सेव्यः साक्षी कृती नेता उदासीनः सतां गतिः ॥१०॥
माता पिता सखा भर्ता सकलाधिनिवारकः ।
बहुरूपो वेदसारो विद्यानाथः शिवायनः ॥११॥
निरमित्रो निरवधिर्निरविद्यो निरामयः ।
मोक्षप्रदमिदं नाम्नां शम्भोरष्टोत्तरं शतम् ॥१२॥
इति श्रीमयूरकृतेषु संस्कृतकाव्येषु
श्रीशिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 28, 2025

TOP