संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम्

श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


सङ्कल्पद क्रमः -
ॐ अस्य श्रीराघवेन्द्रगुरुमन्त्रराजात्मक अष्टोत्तरशतनामामृतस्तोत्रस्य
श्रीकृष्णावधूतो ऋषिः, अनुष्टुप्छन्दः,
श्रीराघवेन्द्रगुर्वन्तर्गतमनुनामक-
भारतीरमणमुख्यप्राणान्तर्गत सीतापतिश्रीरामचन्द्रो देवता ।
श्रीं बीजं, नमः शक्तिः, राघवेन्द्राय इति कीलकम् ।

अथ करन्यासः
१) ॐ श्रीं अङ्गुष्ठाभ्यां नमः,
२) ॐ राघवेन्द्राय तर्जनीभ्यान्नमः
३) ॐ नमः मध्यमाभ्यां नमः,
४) ॐ श्रीं अनामिकाभ्यान्नमः,
५) ॐ राघवेन्द्राय कनिष्ठिकाभ्यां नमः,
६) ॐ नमः करतलकरपृष्ठाभ्यां नमः ।

अथ अङ्गन्यासः
१) ॐ श्रीं हृदयायनमः,
२) ॐ राघवेन्द्राय शिरसे स्वाहा,
३) ॐ नमः शिखाय्क् वषट्,
४) ॐ श्रीं कवचाय हुं,
५) ॐ राघवेन्द्राय नेत्राभ्यां वौषट्,
६) ॐ नमः अस्त्राय फट् ।

     अथ ध्यानम् ।
भव्याकारो भावितेष्टार्थदाता वामे जानौ वामहस्तं दधानः!
ज्ञानाभीतीज्ञानवान् दक्षहस्तीरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥

श्रीराघवेन्द्रगुर्वन्तर्गत मनुनामक भारतीरमण मुख्यप्राणान्तर्गत
सीतापति श्रीरामचन्द्रप्रेरणया श्रीरामचन्द्रप्रीत्यर्थं
गुरुमन्त्रराजात्मक अष्टोत्तरशतनामस्तोत्रपारायणं करिष्ये ।

ओमित्येकाक्षरं ब्रह्म यद्ग्रन्थे सम्प्रकाशितम् ।
तस्मै श्रीराघवेन्द्रार्य गुरवेऽस्तु नमो मम ॥१॥

नमस्ते श्रीरामचन्द्राङ्घ्रिपूजासम्पादिते शतम् ।
घनाभाङ्गाय वेदार्थप्रकाशोद्योगशालिने ॥२॥

द्रागभीष्टप्रदात्रे च यतिवर्याय ते नमः ।
नाना दुःखविनाशाय नमो मानधनप्रिय ॥३॥

श्रीप्रदात्रे नमस्तुभ्यं राजवर्यादिसेवित ।
घनसंसारसौख्याय वेपितप्रतिवादिने ॥४॥

द्राक्षामधुरभाषाय नमस्तुभ्यं यशःप्रद ।
नमतां सौख्यदात्रे च मानदाय नमो नमः ॥५॥

श्रीपतिप्रेष्ठभक्ताय नमस्ते राजपूजित ।
घनरोगविनाशाय वेङ्कटेशार्चिने नमः ॥६॥

द्रावितानेकभूताय यशोदातनयार्चक ।
नादरूपपरब्रह्मोपासिने मानिने नमः ॥७॥

श्रीनाथचरणाम्भोजबम्भारायितमानस ।
राष्ट्रागतजनस्तोम समीहितफलप्रद ॥८॥

घनरोगतृणध्वंसदवानलपदामृत ।
वेदशास्त्रसुधाम्भोधि मन्थनज्ञानमन्दर ॥९॥

द्राघिमाभावितीभूतभक्तसेवेष्टदायिने ।
नमस्ते याचकव्रातचातकामृततेजसे ॥१०॥

नरनारीकदम्बोग्रविपत्तिविनिवारिणे ।
महादयारसासारसागराय नमो नमः ॥११॥

श्रीमद्भिः सेव्यमानाय राष्ट्रक्षेमकराय च ।
घनाघनाङ्गलोलाय वेदव्याख्याविनेदिने ॥१२॥

द्राविताऽनेकपापाय यानाद्यैश्वर्यशालिने ।
नागारिवाहभक्ताय मानदात्रे नमो नमः ॥१३॥

श्रीरामार्च्यापूजकाय रामानासक्तचेतसे ।
घनापत्परिहाराय वेपितारातये नमः ॥१४॥

द्राक्षामधुकटाक्षाय यदुनाथपदार्चिने ।
नमज्जनाघनाशाय मान्यमान्याय ते नमः ॥१५॥

श्रीव्यासराजरूपेण कृष्णार्चार्चक ते नमः ।
राशीकृताऽघतूलाग्निनिभदर्शन ते नमः ॥१६॥

घातुकानां घातुकाय वेदविद्याविशारद ।
द्राघीयः करुणापाङ्गैर्नमस्ते भक्ततोषिणे ॥१७॥

यथाशक्त्यप्पणार्योक्तस्तोत्रपाठप्रमोदिने ।
नरनारीनृपेड्याय महादारिद्र्यनाशिने ॥१८॥

श्रीसुधीन्द्रकरम्भोजसञ्जातवरसूनवे ।
रावितानेकदुर्वादिद्वीपिने घनचेतसे ॥१९॥

वेश्मत्रय निवासाय द्राक् प्रसन्नाय ते नमः ।
यमिने नरसिंहाङ्घ्रिनिरताय ममताजुषे ॥२० ॥

श्रीप्रह्लादावताराय राजद्वाणीविलासिने ।
घटनाननुरूपस्याप्यर्थस्य घटकाय ते ॥२१॥

वेदवेदाङ्गवित्ताय द्रावयन्मायिवादिने ।
यानारोहणसन्तप्तमुद्रास्थापनकारिणे ॥२२॥

नमो नम्यपदाब्जाय मायाविमदहारिणे ।
श्रीतुङ्गातीरवासाय तुभ्यं राजनताय च ॥२३॥

घनसाररजोरक्तभद्रश्रीरससेविने ।
वेतालभयनाशाय द्रागनुग्रहकारिणे ॥२४॥

यक्ष्मकुष्ठादिहरणपादतीर्थाय ते नमः ।
नामसङ्कीर्तनादेव पुरःसन्निहिताय च ॥२५॥

महाजनशिरःस्थानसमालालितपादुक ।
श्रीसर्वतन्त्रस्वातन्त्र्यशालिने राजलक्ष्मणे ॥२६॥

घनविघ्नविनाशाय बद्धकङ्कण ते नमः ।
वेगेन भक्तकार्याणां साधकाय नमोऽस्तु ते ॥२७॥

द्रावयद्वादिजिह्वाय यशोव्याप्तदिशे नमः ।
नानाजातिजनस्तोमस्तूयमानपदाम्बुज ॥२८॥

नमो मार महावीर मार्गणामृग्यचेतसे ।
श्रीमध्वशास्त्रसट्टीकाव्याख्याकौशल्यशालिने ॥२९॥

राजच्छ्रीकाय धर्माभितप्ततापापहारिणे ।
वेलां वेलामुपागम्य भक्तानां कार्यसाधक ॥३०॥

द्राक्षापाकेन सकलग्रन्थव्याकृतिकारिणे ।
यथेष्टधनधान्यादिदात्रे नयविशारद ॥३१॥

मन्त्रालयमहाक्षेत्रवृन्दावननिवासिने ।
श्रीसत्यसन्धरूपेण श्रीसीताप्रतिमार्चक ॥३२॥

राजत्तुङ्गातटभ्राजन्महिषीक्षेत्रवासिने ।
धर्मद्युतिनवज्योतिद्योतिताम्बरधारिणे ॥३३॥

वेतण्डमत्तमायीन्द्र मृगेन्द्रद्रापितापहन् ।
यक्षरक्षोभयध्वंसिन् नमो नारायणप्रिय ॥३४॥

मायामोहितचित्तानां भक्तानां ज्ञानदायिने ।
नमः श्रीहनुमद्भीम मध्वात्मकहरिप्रिय ॥३५॥

राजपूजितपाटीरपादुकाय घनाकृते ।
वेशन्तीकृतसद्भक्तसंसाराम्बुधये नमः ॥३६॥

द्राविताखिलभक्तौघनानादुःखाय ते नमः ।
यमदूतभयत्रात्रे नानाभयविनाशिने ॥३७॥

मातृतः पितृतोप्युच्चैः भक्तकामदुघे नमः ।
इति श्रीराघवेन्द्रार्यगुरुराजमहात्मनः ॥३८॥

नाम्नामषाटोत्तरशतं सचतुष्टयमुत्तमम् ।
अष्टाक्षरमहामन्त्रवर्णानुक्रमवर्णितम् ॥३९॥

गुरुराजात्मभूकृष्णावधूत कविनोदितम् ।
गुरुराजेन कृपया सप्रसादं पुरस्कृतम् ॥४० ॥

पठतां जपतां सर्वकामदं गुर्वनुग्रहात् ।
नश्यन्ति ज्वरमोहाद्याः चतुर्दशदिनावधि ॥४१॥

इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे सप्तमपटले
अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।


N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP