संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम्

श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


नमस्कृत्य प्रवक्ष्यामि देवदेवं जगद्गुरुम् ।
नाम्नामष्टोत्तरशतं चैतन्यस्य महात्मनाः ॥१॥

विश्वम्भरो जितक्रोधो मायामानुषविग्रहः ।
अमायी मायिनां श्रेष्ठो वरदेशो द्विजोत्तमः ॥२॥

जगन्नाथप्रियसुतः पितृभक्तो महामनाः ।
लक्ष्मीकान्तः शचीपुत्रः प्रेमदो भक्तवत्सलः ॥३॥

द्विजप्रियो द्विजवरो वैष्णवप्राणनायकः ।
द्विजातिपूजकः शान्तः श्रीवासप्रिय ईश्वरः ॥४॥

तप्तकाञ्चनगौराङ्गः सिंहग्रीवो महाभुजः ।
पीतवासा रक्तपट्टः षड्भुजोऽथ चतुर्भुजः ॥५॥

द्विभुजश्च गदापाणिः चक्री पद्मधरोऽमलः ।
पाञ्चजन्यधरः शार्ङ्गी वेणुपाणिः सुरोत्तमः ॥६॥

कमलाक्षेश्वरः प्रीतो गोपलीलाधरो युवा ।
नीलरत्नधरो रुप्यहारी कौस्तुभभूषणः ॥७॥

श्रीवत्सलाञ्छनो भास्वान् मणिधृक्कञ्जलोचनः ।
ताटङ्कनीलश्रीः रुद्र लीलाकारी गुरुप्रियाः ॥८॥

स्वनामगुणवक्ता च नामोपदेशदायकः ।
आचाण्डालप्रियाः शुद्धः सर्वप्राणिहिते रतः ॥९॥

विश्वरूपानुजः सन्ध्यावतारः शीतलाशयः ।
निःसीमकरुणो गुप्त आत्मभक्तिप्रवर्तकः ॥१०॥

महानन्दो नटो नृत्यगीतनामप्रियः कविः ।
आर्तिप्रियः शुचिः शुद्धो भावदो भगवत्प्रियाः ॥११॥

इन्द्रादिसर्वलोकेशवन्दितश्रीपदाम्बुजः ।
न्यासिचूडामणिः कृष्णः संन्यासाश्रमपावनः ॥१२॥

चैतन्यः कृष्णचैतन्यो दण्डधृङ्न्यस्तदण्डकः ।
अवधूतप्रियो नित्यानन्दषड्भुजदर्शकः ॥१३॥

मुकुन्दसिद्धिदो दीनो वासुदेवामृतप्रदः ।
गदाधरप्राणनाथ आर्तिहा शरणप्रदः ॥१४॥

अकिञ्चनप्रियः प्राणो गुणग्राही जितेन्द्रियः ।
अदोषदर्शी सुमुखो मधुरः प्रियदर्शनः ॥१५॥

प्रतापरुद्रसन्त्राता रामानन्दप्रियो गुरुः ।
अनन्तगुणसम्पन्नः सर्वतीर्थैकपावनः ॥१६॥

वैकुण्ठनाथो लोकेशो भक्ताभिमतरूपधृक् ।
नारायणो महायोगी ज्ञानभक्तिप्रदः प्रभुः ॥१७॥

पीयूषवचनः पृथ्वी पावनः सत्यवाक्सहः ।
ओडदेशजनानन्दी सन्दोहामृतरूपधृक् ॥१८॥

यः पठेत्प्रातरुत्थाय चैतन्यस्य महात्मनः ।
श्रद्धया परयोपेतः स्तोत्रं सर्वाघनाशनम् ।
प्रेमभक्तिर्हरौ तस्य जायते नात्र संशयः ॥१९॥

असाध्यरोगयुक्तोऽपि मुच्यते रोगसङ्कटात् ।
सर्वापराधयुक्तोऽपि सोऽपराधात्प्रमुच्यते ॥२०॥

फाल्गुनीपौर्णमास्यां तु चैतन्यजन्मवासरे ।
श्रद्धया परया भक्त्या महास्तोत्रं जपन्पुरः ।
यद्यत् प्रकुरुते कामं तत्तदेवाचिराल्लभेत् ॥२१॥

अपुत्रो वैष्णवं पुत्रं लभते नात्र संशयः ।
अन्ते चैतन्यदेवस्य स्मृतिर्भवति शाश्वती ॥२२॥

इति सार्वभौम भट्टाचार्यविरचितं
श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP