संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


स्कंदोगुह षण्मुखश्च भालनेत्रसुतः प्रभुः ।
पिंगलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥१॥

द्विषण्णेत्रश्शक्तिधरः पिशिताशा प्रभंजनः ।
तारकासुरसंहारि रक्षोबलविमर्दनः ॥२॥

मत्तः प्रमत्तोन्मत्तश्च सुरसैन्य सुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालो भक्तवत्सलः ॥३॥

उमासुतश्शक्तिधरः कुमारः क्रौंचधारिणः ।
सेनानीरग्निजन्मा च विशाखश्शंकरात्मजः ॥४॥

शिवस्वामि गणस्वामि सर्वस्वामि सनातनः ।
अनंतमूर्तिरक्षोभ्यः पार्वती प्रियनंदनः ॥५॥

गंगासुतश्शरोद्भूत आहूतः पावकात्मजः ।
जॄंभः प्रजॄंभः उज्जॄंभः कमलासन संस्तुतः ॥६॥

एकवर्णो द्विवर्णश्च त्रिवर्णस्सुमनोहरः ।
चतुर्वर्णः पंचवर्णः प्रजापतिरहह्पतिः ॥७॥

अग्निगर्भश्शमीगर्भो विश्वरेतास्सुरारिहा ।
हरिद्वर्णश्शुभकरो वटुश्च पटुवेषभृत् ॥८॥

पूषागभस्तिर्गहनो चंद्रवर्ण कलाधरः ।
मायाधरो महामायी कैवल्य श्शंकरात्मजः ॥९॥

विश्वयोनिरमेयात्मा तेजोयोनिरनामयः ।
परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः ॥१०॥

पुलिंद कन्याभर्ताच महासारस्वतवृतः ।
अश्रिताखिलदाताच चोरघ्नो रोगनाशनः ॥११॥

अनंतमूर्तिरानंदश्शिखंडीकृतकेतनः ।
डंभः परमडंभश्च महाडंभोवृषाकपिः ॥१२॥

कारणोत्पत्तिदेहश्च कारणातीत विग्रहः ।
अनीश्वरोऽमृतःप्राणः प्राणायाम परायणः ॥१३॥

विरुद्धहंत वीरघ्नो रक्तश्यामगलोऽपिच ।
सुब्रह्मण्यो गुहप्रीतः ब्रह्मण्यो ब्राह्मणप्रियः ॥१४॥

। इति श्री सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP