संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
स्कन्दशताष्टनामस्तोत्रम्

स्कन्दशताष्टनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


स्कन्दो गुहः षण्मुखश्च भालनेत्रसुतः प्रभुः ।
पिङ्गळः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥१४१॥

द्विषण्णेत्रः कुमारश्च पिशिताशनभञ्जनः ।
तारकासुरसंहर्ता रक्षोबलनिषूदनः ॥१४१॥

मत्तः प्रमत्त उन्मत्तः सुरसैन्याभिरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥१४२॥

उमासुतो महासेनः कुमारः क्रौञ्चदारणः ।
सेनानीरग्रजन्मा च विशाखः शङ्कारात्मजः ॥१४३॥

शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥१४४॥

गङ्गासुतः शरोद्भूत आहुतः पावकात्मजः ।
जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसन्नुतः ॥१४५॥

एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः ।
चातुर्वर्ण्यः पञ्चवर्णः प्रजापतिरहःपतिः ॥१४६॥

अग्निगर्भः शमीगर्भो विश्वगर्भः सुरारिहा ।
हरिद्वर्णः शुभकरः पटुवाक् वटुवेषधृक् ॥१४७॥

पूषा गभस्तिर्गगनश्चन्द्रवर्णः कलाधरः ।
मायाधरो महामायः कैलासावसथः शिखी ॥१४८॥

विश्वयोनिरमेयात्मा तेजोनिधिरनामयः ।
परमेष्ठी परब्रह्म वेदगर्भो विराड् वसुः ॥१४९॥

पुलिन्दकन्याभर्ता च महासारस्वतप्रदः ।
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥१५०॥

अनन्तशक्तिरानन्दः शिखण्डिकृतकेतनः ।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥१५१॥

कारणं कान्तदेहश्च कारणातीतविग्रहः ।
अहिरूपोऽमृतवपुः प्राणायामपरायणः ॥१५२॥

विरुद्धहर्ता वीरघ्नो रक्तश्यामललोचनः ।
बहुवर्णो गणपतिः स्वभक्ताभीष्टदायकः ॥१५३॥

सर्वेश्वरो लोकगुरुरसुरानीकनाशनः ।
सुब्रह्मण्यो गुहः स्कन्दो ब्रह्मण्यो ब्राह्मणप्रियः ॥१५४॥

(फलम्)

एवमष्टोत्तरशतनामभिः स्तौति यो नरः ।
तस्याभीष्टानि सर्वाणि प्रयच्छति गुहो मुहुः ॥१५५॥

॥ इति शिवरहस्यान्तर्गते मुनिभिः कृतं स्कन्दशताष्टनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP