संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र| श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं अष्टोत्तरशतनामस्तोत्र श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम् श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम् तुलस्यष्टोत्तरशतनामस्तोत्रं नृसिंहाष्टोत्तरशतनामस्तोत्रम् सरस्वत्यष्टोत्तरशतनामस्तोत्रम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् गौर्यष्टोत्तरशतनामस्तोत्रम् श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ललिताष्टोत्तरशतनामस्तोत्रम् सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम् लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम् श्री सीता अष्टोत्तरशतनामस्तोत्रम् श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं सहस्रशीर्ष्णे वै तुभ्यं स... गणेशहेरंबगजाननेति महोदर! ... श्री देव्युवाच- देव देव म... श्रीशंकराचार्यवर्यश्च ब्र... महाशास्ता महादेवो महादेवस... रजताचलशृंगाग्रमध्यस्थायै ... वासुदेवं हृषीकेशं वामनं ज... श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.Ashtottara shatanamavali means 108 names of almighty God and Godess. Tags : devidevtasanskritstotraअष्टोत्तरशतनामस्तोत्रसंस्कृतस्तोत्र श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं Translation - भाषांतर ॥श्रीः॥सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।सहस्रबाहुर्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥१॥अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः ।सौदामिनीसहस्राभः मणिकुण्डलशोभितः ॥२॥पञ्चभूतमनोरूपो षट्कोणान्तरसंस्थितः ।हरान्तः करणोद्भूतरोषभीषणविग्रहः ॥३॥हरिपाणिलसत्पद्मविहारारमनोहरः ।श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥४॥चतुर्दशसहस्रारः चतुर्वेदमयोऽनलः ।भक्तचान्द्रमसज्योतिः भवरोगविनाशकः ॥५॥रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः ।सर्वदैत्यग्रीवनालविभेदनमहागजः ॥६॥भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा विलोचनः ।नीलवर्त्मा नित्यसुखो निर्मलश्रीर्निरञ्जनः ॥७॥रक्तमाल्यांबरधरो रक्तचन्दनरूषितः ।रजोगुणाकृतिश्शूरो रक्षःकुलयमोपमः ॥८॥नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः ।नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥९॥बलिनन्दनदोर्दण्डखण्डनो विजयाकृतिः ।मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥१०॥रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् ।हरिमायागुणोपेतोऽव्ययोऽक्षस्वरूपभाक् ॥११॥परमात्मा परंज्योतिः पञ्चकृत्यपरायणः ।ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयः ॥१२॥सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः ।जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥१३॥मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः ।बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥१४॥मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रमयो विभुः ।स्रष्टा क्रियास्पदश्शुद्धः आधारश्चक्ररूपकः ॥१५॥निरायुधो ह्यसंरम्भः सर्वायुधसमन्वितः ।ओम्काररूपी पूर्णात्मा आंकारस्साध्यबन्धनः ॥१६॥ऐंकारो वाक्प्रदो वग्मी श्रींकारैश्वर्यवर्धनः ।क्लींकारमोहनाकारो हुंफट्क्षोभणाकृतिः ॥१७॥इन्द्रार्चितमनोवेगो धरणीभारनाशकः ।वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः ॥१८॥सत्यव्रतः सत्यधरः सत्यधर्मानुषङ्गकः'नारायणकृपाव्यूहतेजश्चक्रस्सुदर्शनः ॥१९॥॥ श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं संपूर्णम॥ N/A References : N/A Last Updated : February 15, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP