संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


हयग्रीवो महाविष्णुः केशवो मधुसूदनः
गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वंभरो हरिः ॥१-९॥
आदित्यः सर्ववागीशः सर्वाधारो सनातनः
निराधारो निराकारो निरीशो निरुपद्रवः ॥१०-१७॥
निरञ्जनोनिष्कलंको नित्यतृप्तो निरामयः
चिदानन्दमयो साक्षी शरण्यः सर्वदायकः ॥१८-२५॥
श्रीमान् लोकत्रयाधीशो शिवः सारस्वतप्रदः
वेदोद्धर्त्ता वेदनिधिर्वेदवेद्यः प्रभूतनः ॥२६-३३॥
पूर्णः पूरयिता पुण्य़ः पुण्यकीर्तिः परात्परः
परमात्मा परंज्योतिः परेशः पारगः परः ॥३४-४३॥
र्सर्ववेदात्मको विद्वान्वेदवेदांगपारगः
सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ॥४४-४९॥
अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः
पुराणपुरुषो श्रेष्ठः शरण्यः परमेश्वरः ॥५०-५५॥
शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः
जगन्मृत्युहरो जीवो जयदो जाड्यनाशनः ॥५६-६४॥
जनप्रियो जनस्तुत्यो जापकप्रियकृत्प्रभुः
विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः ॥६५-७२॥
विधीन्द्रशिवसंस्तुत्यो शान्तिदः क्षान्तिपारगः
श्रेयप्रदो श्रुतिमयो श्रेयसांपतिरीश्वरः ॥७३-७९॥
अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः
अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ॥८०-८७॥
अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः
ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः ॥८८-९५॥
महायोगी महामौनी मौनीशो श्रेयसांपतिः
हंसः परमहंसश्च विश्वगोप्ता विरट् स्वराट् ॥९६-१०४॥
शुद्धस्फटिकसंकाशः जटामण्डलसंयुतः
आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ॥१०५-१०८॥

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP