संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम्

श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


अनाद्यन्तो ह्यनन्तश्रीराकाशग इहागमः ।
ईतित्राता चोग्रदण्ड ऊतिकृदृणशोधनः ॥१॥

एकराडैतिहासिक्यमृग्य ओषधिवीर्यदः ।
औपनिषदोंऽशुमान् केशप्रियः कल्याणवृत्तिदः ॥२॥

कलिकालेऽद्भुताचिन्त्यशक्तिशाली कृतिप्रियः ।
खाटूग्रामकृतस्थानः खाटूयात्राजनप्रियः ॥३॥

गुणाढ्यो गुणिसंरक्षी ग्रहभीतिविनाशकः ।
घटनाप्रियश्चन्द्ररम्यः छत्रधारी जयप्रदः ॥४॥

झटित्याश्चर्यकारी च टुप्क्रोधी ठाकुरप्रभुः ।
डाकिनीत्रासनिर्हारी ढुण्ढारिक्षेत्रमध्यगः ॥५॥

णकारैवदुर्लक्ष्यपदस्तेजस्तपोनिधिः ।
तपनीयाभूषणाढ्यो थूत्कारापहतासुरः ॥६॥

दृढव्रतो दृढप्रेमी दाता दानविधिप्रियः ।
धीरो धीरप्रियो धीमान् धीदाता धान्यवर्धनः ॥७॥

धात्रीप्रियो धैर्यदाता न्यायकारो नतिप्रियः ।
पामराणामपि त्राता पापहारी पशुप्रदः ॥८॥

फाल्गुनेऽफल्गुदाता च बहुबाहुर्भयापहः ।
भक्तप्रियो भक्तसखो भक्तभावप्रपोषकः ॥९॥

भक्तिदो भक्तवचसां श्रोता च भजनप्रियः ।
मितभाषी मृषाद्वेषी यज्ञप्रेमी यमप्रियः ॥१०॥

रम्यमन्दिरमध्यस्थो लीलया बहुरूपधृक् ।
विशालभालतिलकः शरणागतवत्सलः ॥११॥

षट्कर्मविद्यः सन्तानदाता तु हवनप्रियः ।
श्रीश्यामदेवो ब्रह्मण्यो बालकेशार्पणप्रियः ॥१२॥

दाम्पत्यक्षेमकर्ता च शुभोष्णीषी सदर्थकृत् ।
उशीरवासितजलप्रियः केतकिगन्धभूत् ॥१३॥

कौसुम्भवर्णवस्त्राढ्यः केसरालेपनप्रियः ।
आयताक्षः सुदीप्ताक्षः सुनासा विततश्रवाः ॥१४॥

शृङ्गारहृद्यो लोकेशो वर्वराकारकेशवान् ।
दर्शनीयतमः श्यामः सुललाटः सुविक्रमः ॥१५॥

किरीटी मणिरत्नाढ्यो मकराकृतिकुण्डली ।
श्वेतध्वजः स्मितमुखो भक्तानामभयङ्करः ॥१६॥

भक्तानां पालनार्थाय नानावेषधरोऽनघः ।
सत्यप्रियः प्राणदाता सत्यसख्यः सदावसुः ॥१७॥

द्वादशीतिथिसंसेव्यः साज्यचूर्णेलिमप्रियः ।
श्रीमद्भागवतास्वादरसिको भूतिवर्धनः ॥१८॥

॥ फलश्रुतिः ॥

अष्टोत्तरशतं नाम्ना प्रभोः श्यामस्य सेव्यताम् ।
क्षेमः शिवं रोगदोषनिवृत्तिरनुभूयताम् ॥१९॥

श्रीश्यामकृपया ह्येतन्नाम्नामष्टोत्तरं शतम् ।
गोपालचन्द्रमिश्रस्तु लोके प्राचीकशच्छुभम् ॥२०॥

॥ इति श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम् ॥

N/A

References : N/A
Last Updated : December 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP