श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
। रुद्राद्या ऊचुः ।
ॐ नमो नारसिंहाय तीक्ष्ण-दंष्ट्राय ते नमः ।
नमो वज्र-नखायैव विष्णवे जिष्णवे नमः ॥१॥
सर्वबीजाय सत्याय सर्वचैतन्य-रूपिणे ।
सर्वाधाराय सर्वस्मै सर्वगाय नमो नमः ॥२॥
विश्वस्मै विश्ववन्द्याय विरिञ्चि-जनकाय च ।
वागीश्वराय वेद्याय वेधसे वेदमौलये ॥३॥
नमो रुद्राय भद्राय मङ्गलाय महात्मने ।
करुणाय तुरीयाय शिवाय परमात्मने ॥४॥
हिरण्यकशिपु-प्राण-हरणाय नमो नमः ।
प्र्ह्लाद-ध्यायमानाय प्रह्लादार्ति-हराय च ॥५॥
प्रह्लाद-स्थिरसाम्राज्य-दायकाय नमो नमः ।
दैत्य-वक्षोविदलन-व्यग्र-वज्रनखाय च ॥६॥
आन्त्रमाला-विभूषाय महारौद्राय ते नमः ।
नम उग्राय वीराय ज्वलते भीषणाय च ॥७॥
सर्वतोमुख-दुर्वार-तेजो-विक्रमशालिने ।
नरसिंहाय रौद्राय नमस्ते मृत्युमृत्यवे ॥८॥
मत्स्याद्यनन्त-कल्याण-लीला-वैभवकारिणे ।
नमो व्यूहचतुष्काय दिव्यार्चा-रूपधारिणे ॥९॥
परस्मै पाञ्चजन्यादि-पञ्च-दिव्यायुधाय च ।
त्रिसाम्ने च त्रिधाम्ने च त्रिगुणातीत-मूर्तये ॥१०॥
योगारूढाय लक्ष्याय मायातीताय मायिने ।
मन्त्रराजाय दुर्दोष-शमनायेष्टदाय च ॥११॥
नमः किरीट-हारादि-दिव्याभरण-धारिणे ।
सर्वालङ्कार-युक्ताय लक्ष्मीलोलाय ते नमः ॥१२॥
आकण्ठ-हरिरूपाय चाकण्ठ-नररूपिणे ।
चित्राय चित्ररूपाय जगच्चित्रतराय च ॥१३॥
सर्व-वेदान्त-सिद्धान्त-सारसत्तमयाय च ।
सर्व-मन्त्राधिदेवाय स्तम्भ-डिम्भाय शम्भवे ॥१४॥
नमोऽस्त्वनन्त-कल्याणगुण-रत्नाकराय च ।
भगवच्छब्द-वाच्याय वागतीताय ते नमः ॥१५॥
कालरूपाय कल्याय सर्वज्ञायाघहारिणे ।
गुरवे सर्वसत्कर्म-फलदाय नमो नमः ॥१६॥
अशेष-दोषदूराय सुवर्णायात्मदर्शिने ।
वैकुण्ठपद-नाथाय नमो नारायणाय च ॥१७॥
केशवादि-चतुर्विंशत्यवतार-स्वरूपिणे ।
जीवेशाय स्वतन्त्राय मृगेन्द्राय नमो नमः ॥१८॥
बर्ह्मराक्षस-भूतादि-नानाभय-विनाशिने ।
अखण्डानन्द-रूपाय नमस्ते मन्त्रमूर्तये ॥१९॥
सिद्धये सिद्धिबीजाय सर्वदेवात्मकाय च ।
सर्व-प्रपञ्च-जन्मादि-निमित्ताय नमो नमः ॥२०॥
शङ्कराय शरण्याय नमस्ते शास्त्रयोनये ।
ज्योतिषे जीवरूपाय निर्भेदाय नमो नमः ॥२१॥
नित्यभागवताराध्य सत्यलीला-विभूतये ।
नरकेसरिताव्यक्त-सदसन्मय-मूर्तये ॥२२॥
सत्तामात्र-स्वरूपाय स्वाधिष्ठानात्मकाय च ।
संशयग्रन्थि-भेदाय सम्यग्ज्ञान-स्वरूपिणे ॥२३॥
सर्वोत्तमोत्तमेशाय पुराण-पुरुषाय च ।
पुरुषोत्तमरूपाय साष्टाङ्गं प्रणतोऽस्म्यहम् ॥२४॥
नाम्नामष्टोत्तरशतं श्रीनृसिंहस्य यः पटेत् ।
सर्वपाप-विनिर्मुक्तः सर्वेष्टार्थानवाप्नुयात् ॥२५॥
॥ इति श्रीब्रह्माण्डपुराणे नृसिंहाष्टोत्तर-शतनाम-स्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 25, 2025

TOP