संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम्

श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


नरसिंहो नरो नारस्रष्टा नारायणो नवः ।
नवेतरो नरपतिर्नरात्मा नरचोदनः ॥१॥

नखभिन्नस्वर्णशय्यो नखदंष्ट्राविभीषणः ।
नारभीतदिशानाशो नन्तव्यो नखरायुधः ॥२॥

नादनिर्भिन्नपाद्माण्डो नयनाग्निहुतासुरः ।
नटत्केसरसञ्जातवातविक्षिप्तवारिदः ॥३॥

नलिनीशसहस्राभो नतब्रह्मादिदेवतः ।
नभोविश्वम्भराभ्यन्तर्व्यापिदुर्वीक्षविग्रहः ॥४॥

निश्श्वासवातसंरम्भ घूर्णमानपयोनिधिः ।
निर्दयाङ्घ्रियुगन्यासदलितक्ष्माहिमस्तकः ॥५॥

निजसंरम्भसन्त्रस्तब्रह्मरुद्रादिदेवतः ।
निर्दम्भभक्तिमद्रक्षोडिम्भनीतशमोदयः ॥६॥

नाकपालादिविनुतो नाकिलोककृतप्रियः ।
नाकिशत्रूदरान्त्रादिमालाभूषितकन्धरः ॥७॥

नाकेशासिकृतत्रासदंष्ट्राभाधूततामसः ।
नाकमर्त्यातलापूर्णनादनिश्शेषितद्विपः ॥८॥

नामविद्राविताशेषभूतरक्षःपिशाचकः ।
नामनिश्श्रेणिकारूढनिजलोकनिजव्रजः ॥९॥

नालीकनाभो नागारिवन्द्यो नागाधिराड्भुजः ।
नगेन्द्रधीरो नेत्रान्तस्ख्सलदग्निकणच्छटः ॥१०॥

नारीदुरासदो नानालोकभीकरविग्रहः ।
निस्तारितात्मीयसन्थो निजैकज्ञेयवैभवः ॥११॥

निर्व्याजभक्तप्रह्लादपरिपालनतत्परः ।
निर्वाणदायी निर्व्याजभक्त्येकप्राप्यतत्पदः ॥१२॥

निर्ह्रादमयनिर्घातदलितासुरराड्बलः ।
निजप्रतापमार्ताण्डखद्योतीकृतभास्करः ॥१३॥

निरीक्षणक्षतज्योतिर्ग्रहतारोडुमण्डलः ।
निष्प्रपञ्चबृहद्भानुज्वालारुणनिरीक्षणः ॥१४॥

नखाग्रलग्नारिवक्षस्स्रुतरक्तारुणाम्बरः ।
निश्शेषरौद्रनीरन्ध्रो नक्षत्राच्छादितक्षमः ॥१५॥

निर्णिद्ररक्तोत्पलाक्षो निरमित्रो निराहवः ।
निराकुलीकृतसुरो निर्णिमेयो निरीश्वरः ॥१६॥

निरुद्धदशदिग्भागो निरस्ताखिलकल्मषः ।
निगमाद्रिगुहामध्यनिर्णिद्राद्भुतकेसरी ॥१७॥

निजानन्दाब्धिनिर्मग्नो निराकारो निरामयः ।
निरहङ्कारविबुधचित्तकानन गोचरः ॥१८॥

नित्यो निष्कारणो नेता निरवद्यगुणोदधिः ।
निदानं निस्तमश्शक्तिर्नित्यतृप्तो निराश्रयः ॥१९॥

निष्प्रपञ्चो निरालोको निखिलप्रीतिभासकः ।
निरूढज्ञानिसचिवो निजावनकृताकृतिः ॥२०॥

निखिलायुधनिर्भातभुजानीकशताद्भुतः ।
निशितासिज्ज्वलज्जिह्वो निबद्धभृकुटीमुखः ॥२१॥

नगेन्द्रकन्दरव्यात्तवक्त्रो नम्रेतरश्रुतिः ।
निशाकरकराङ्कूर गौरसारतनूरुहः ॥२२॥

नाथहीनजनत्राणो नारदादिसमीडितः ।
नारान्तको नारचित्तिर्नाराज्ञेयो नरोत्तमः ॥२३॥

नरात्मा नरलोकांशो नरनारायणो नभः ।
नतलोकपरित्राणनिष्णातो नयकोविदः ॥२४॥

निगमागमशाखाग्र प्रवालचरणाम्बुजः ।
नित्यसिद्धो नित्यजयी नित्यपूज्यो निजप्रभः ॥२५॥

निष्कृष्टवेदतात्पर्यभूमिर्निर्णीततत्त्वकः ।
नित्यानपायिलक्ष्मीको निश्श्रेयसमयाकृतिः ॥२६॥

निगमश्रीमहामालो निर्दग्धत्रिपुरप्रियः ।
निर्मुक्तशेषाहियशा निर्द्वन्द्वो निष्कलो नरी ॥२७॥

॥ इति नकारादि श्री नरसिंहाष्टोत्तरशतनामस्तोत्रम् पराभव
श्रावण शुद्धैकादश्याम् रामेण लिखिता श्री हयग्रीवाय समर्पित ॥

N/A

References : N/A
Last Updated : December 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP