संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम्

अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


(शिवरहस्यान्तर्गते उग्राख्ये)
शिवः उवाच
अस्य श्रीअन्नपूर्णाष्टोत्तरशतनाममन्त्रस्य परमात्मा
सदाशिवोऽहं ऋषयः(षिः) अनुष्टुप् छन्दः,
अन्नपूर्णा देवता, स्वधा बीजं, स्वाहा शक्तिः
ह्रीं कीलकम् । सर्वाभीष्टसिद्धिः फल
श्रीअन्नपूर्णाप्रीत्यर्थे जपे विनियोगः ।

ॐ अन्नपूर्णादिवा(मा)देवी श्रीमा(श्रीर्मा)पुष्टिः सरस्वती । (भीमापुष्टिः)
सर्वज्ञा पार्वती दुर्गा शिवानी शिववल्लभा ॥६२८॥

वेदविद्या महाविद्या विद्याधात्री विशारदा ।
कुमारी युवती बाला लक्ष्मीः श्रीर्भयहारिणी ॥६२९॥

भवानी विष्णुजननी ब्रह्मादिजननी परा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥६३०॥

भाग्याश्रया भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या सुभ्रूः परममङ्गला ॥६३१॥

शर्वाणी चञ्चलापाङ्गी(ङ्गा) चारुचन्द्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥६३२॥

आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभा वार्ता वृत्तपीनपयोधरा ॥६३३॥

अम्बा संसारमथनी मृजनी सर्वमङ्गला ।
विष्णुसंसेविता शुद्धा ब्रह्मादिसुरसेविता ॥६३४॥

परमानन्ददा शान्तिः परमानन्दरूपिणी ।
परमानन्दजननी परमान्नप्रदायिनी ॥६३५॥

परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥६३६॥

शुभलक्षणसम्पन्ना शुभानन्तगुणार्णवा ।
शुभसौभाग्यनिलया शुभाचाररतप्रिया ॥६३७॥

चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
चण्डमार्ताण्डनयना चन्द्राग्निनयना सती ॥६३८॥

पुण्डरीकपुरा पुण्या पुण्यदा पुण्यरूपिणी ।
पुण्यज्ञेया पुण्यवन्द्या पुण्यमूर्तिः पुरातना ॥६३९॥

अनवद्या वेदवेद्या वेदवेदान्तरूपिणी ।
मायातीता सृष्टमाया सृष्टधर्मात्मवन्दिता ॥६४०॥

असृष्टा सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥६४१॥

मन्दस्मिता शुद्धरूपा शुद्धचित्तमुनिस्तुता ।
महाभागपती दक्षा दक्षाध्वरविनाशिनी ॥६४२॥

अपर्णाऽनन्यशरणा भक्ताभीष्टफलप्रदा ।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥६४३॥

नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिध्यर्थं जपनीयं प्रयत्नतः ॥६४४॥

इदं स्वस्त्ययनं धन्यं महापातकनाशनम् ।
सर्वाभीष्टप्रदं पुण्यं नित्यमङ्गलदायकम् ॥६४५॥

॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP