संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीकिरातशास्तुः अष्टोत्तरशतनामस्तोत्रम्

श्रीकिरातशास्तुः अष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


किरातात्मा शिवः शान्त शिवात्मा शिवनन्दनः ।
पुराणपुरुषोधन्वी पुरुहुत सहायकृत् ॥१
नीलाम्बरो महाबाहुर्वीर्यवान् विजयप्रदः ।
विधुमौलिर्विराडात्मा विश्वात्मा वीर्यमोहनः ॥२
वरदो वामदेवश्च वासुदेवप्रियो विभुः ।
केयूरवान् पिञ्छमौलिः पिङ्गलाक्षः कृपाणवान् ॥३
शास्वतः शरकोदण्डी शरणागतवत्सलः ।
श्यामलाङ्गः शरधीमान् शरदिन्दु निभाननः ॥४
पीनकण्ठो विरूपाक्षः क्षुद्रहा क्षुरिकायुधः ।
धाराधर वपुर्धीमान् सत्यसन्धः प्रतापवान् ॥५
कैरातपतिराखेटप्रियः प्रीतिप्रदः प्रभुः ।
रेणुकात्मज श्रीराम चित्तपत्मालयो बली ॥६
व्याधरूपधरो व्याधिनाशनः कालशासनः ।
कामदेवसमो देवः कामितार्थ फलप्रदः ॥७
अभृतः स्वभृतो धीरः सारः सात्विकसत्तमः ।
सामवेदप्रियो वेधाः वेदो वेदविदांवरः ॥८
त्र्यक्षरात्मा त्रिलोकेशः त्रिस्वरात्मा त्रिलोचनः ।
त्रिगुणात्मा त्रिकालज्ञः त्रिमूर्त्यात्मा त्रिवर्गदः ॥९
पार्वतीनन्दनः श्रीमान् पावनः पापनाशनः ।
पारावारगभीरात्मा परमात्मा परात्परः ॥१०
गीतप्रियो गीतकीर्तिः कार्तिकेयसहोदरः ।
कारुण्यसागरो हंसः सिद्ध सिम्हपराक्रमः ॥११
सुश्लोकः सुमुखो वीरः सुन्दरः सुरवन्दितः ।
सुरवैरिकुलध्वंसी स्थूलश्मश्रुरमित्रहा ॥१२
अमृतः सर्वगः सूक्ष्म स्थूलस्तुरगवाहनः ।
अमलो विमलो दक्षो वसुमान् वनगो गुरुः ॥१३
सर्वप्रियः सर्वसाक्षी सर्वयोगीश्वरेश्वरः
तारक ब्रह्मरूपी च चन्द्रिकाविशदस्मितः
किरात वपुरारामसञ्चारी परमेश्वरः ॥१४
इति श्री किरातशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 22, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP