देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अस्य श्री देवी-वैभव-आश्चर्य-अष्टोत्तरशत-दिव्यनामस्तोत्र-महामन्त्रस्य
आनन्दभैरव ऋषिः । अनुष्टुप् छन्दः । श्री आनन्दभैरवी
श्रीमहात्रिपुरसुन्दरी देवता ।
कूटत्रयेण बीज-शक्ति-कीलकम् ।
मम श्री आनन्दभैरवी श्रीमहात्रिपुरसुन्दरीप्रसाद-
सिद्ध्यर्थे सान्निध्यसिद्ध्यर्थे जपे विनियोगः ।
कूटत्रयेण कर-षडङ्गन्यासः ॥
भूर्भुवःसुवरोमिति दिग्बन्धः
॥ध्यानम् ॥
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥१॥
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥२॥
॥पञ्चपूजा ॥
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ॥
ॐ ऐं ह्रीं श्रीं
परमानन्दलहरी परचैतन्यदीपिका ।
स्वयंप्रकाशकिरणा नित्यवैभवशालिनी ॥१॥
विशुद्धकेवलाखण्डसत्यकालात्मरूपिणी ।
आदिमध्यान्तरहिता महामायाविलासिनी ॥२॥
गुणत्रयपरिच्छेत्री सर्वतत्त्वप्रकाशिनी ।
स्त्रीपुंसभावरसिका जगत्सर्गादिलंपटा ॥३॥
अशेषनामरूपादिभेदच्छेदरविप्रभा ।
अनादिवासनारूपा वासनोद्यत्प्रपञ्चिका ॥४॥
प्रपञ्चोपशमप्रौढा चराचरजगन्मयी ।
समस्तजगदाधारा सर्वसञ्जीवनोत्सुका ॥५॥
भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमा ।
सर्वाकर्षणवश्यादिसर्वकर्मदुरन्धरा ॥६॥
विज्ञानपरमानन्दविद्या सन्तानसिद्धिदा ।
आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदा ॥७॥
धनधान्यमणीवस्त्रभूषालेपनमाल्यदा ।
गृहग्राममहाराज्यसांराज्यसुखदायिनी ॥८॥
सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदा ।
ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमा ॥९॥
भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिनी ।
निग्रहानुग्रहाध्यक्षा ज्ञाननिर्द्वैतदायिनी ॥१०॥
परकायप्रवेशादियोगसिद्धिप्रदायिनी ।
शिष्टसञ्जीवनप्रौढा दुष्टसंहारसिद्धिदा ॥११॥
लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डला ।
एकानेकात्मिका नानारूपिण्यर्धाङ्गनेश्वरी ॥१२॥
शिवशक्तिमयी नित्यशृङ्गारैकरसप्रिया ।
तुष्टा पुष्टापरिच्छिन्ना नित्ययौवनमोहिनी ॥१३॥
समस्तदेवतारूपा सर्वदेवाधिदेवता ।
देवर्षिपितृसिद्धादियोगिनीभैरवात्मिका ॥१४॥
निधिसिद्धिमणीमुद्रा शस्त्रास्त्रायुधभासुरा ।
छत्रचामरवादित्रपताकाव्यजनाञ्चिता ॥१५॥
हस्त्याश्वरथपादातामात्यसेनासुसेविता ।
पुरोहितकुलाचार्यगुरुशिष्यादिसेविता ॥१६॥
सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिनी ।
मणिद्वीपान्तरप्रोद्यत्कदंबवनवासिनी ॥१७॥
चिन्तामणिगृहान्तस्था मणिमण्डपमध्यगा ।
रत्नसिंहासनप्रोद्यच्छिवमञ्चाधिशायिनी ॥१८॥
सदाशिवमहालिङ्गमूलसंघट्टयोनिका ।
अन्योन्यालिङ्गसंघर्षकण्डूसंक्षुब्धमानसा ॥१९॥
कलोद्यद्बिन्दुकालिन्यातुर्यनादपरंपरा ।
नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृता ॥२०॥
कामराजमहातन्त्ररहस्याचारदक्षिणा ।
मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दरी ॥२१॥
श्रीचक्रराजनिलया श्रीविद्यामन्त्रविग्रहा ।
अखण्डसच्चिदानन्दशिवशक्त्यैकरूपिणी ॥२२॥
त्रिपुरा त्रिपुरेशानी महात्रिपुरसुन्दरी ।
त्रिपुरावासरसिका त्रिपुराश्रीस्वरूपिणी ॥२३॥
महापद्मवनान्तस्था श्रीमत्त्रिपुरमालिनी ।
महात्रिपुरसिद्धाम्बा श्रीमहात्रिपुराम्बिका ॥२४॥
नवचक्रक्रमादेवी महात्रिपुरभैरवी ।
श्रीमाता ललिता बाला राजराजेश्वरी शिवा ॥२५॥
उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिनी ।
अर्धमेर्वात्मचक्रस्था सर्वलोकमहेश्वरी ॥२६॥
वल्मीकपुरमध्यस्था जम्बूवननिवासिनी ।
अरुणाचलशृङ्गस्था व्याघ्रालयनिवासिनी ॥२७॥
श्रीकालहस्तिनिलया काशीपुरनिवासिनी ।
श्रीमत्कैलासनिलया द्वादशान्तमहेश्वरी ॥२८॥
श्रीषोडशान्तमध्यस्था सर्ववेदान्तलक्षिता ।
श्रुतिस्मृतिपुराणेतिहासागमकलेश्वरी ॥२९॥
भूतभौतिकतन्मात्रदेवताप्राणहृन्मयी ।
जीवेश्वरब्रह्मरूपा श्रीगुणाढ्या गुणात्मिका ॥३०॥
अवस्थात्रयनिर्मुक्ता वाग्रमोमामहीमयी ।
गायत्रीभुवनेशानीदुर्गाकाळ्यादिरूपिणी ॥३१॥
मत्स्यकूर्मवराहादिनानारूपविलासिनी ।
महायोगीश्वराराध्या महावीरवरप्रदा ॥३२॥
सिद्धेश्वरकुलाराध्या श्रीमच्चरणवैभवा ॥३३॥
N/A
References : N/A
Last Updated : December 25, 2025

TOP