भैरव्यष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
(अथ श्रीकालीविलासतन्त्रे त्रयोदशपटलः ।
श्रीवामदेव उवाच ।
शृणुत्वं शतनामानि भैरव्याः प्राणवल्लभे ।
यस्याः प्रसादमात्रेण महासम्पद्भवेत् कलौ ॥१॥
अस्य श्रीभैरवी शतनाम स्तोत्रस्य श्रीईश्वरऋषि-
र्गायत्रोच्छन्दः श्रीभैरवी शक्तिभैरवी देवता
धर्मार्थकाममोक्षार्थे विनियोगः ॥
ॐ ह्रीं भैरवी भगिनी भद्रा भवानी भव चर्चिता ।
भुवना भुवनेशानि नानाभरणभूषिता ॥२॥
भवेशी-भार्गवाराध्या भुवनानन्दकारिणी ।
भगिनी भागिनी भव्या भावनीया भयापहा ॥३॥
भोगेश्वरी भोगरूपा भवदुःखवियोगिनी ।
भयङ्करी भयहरा भब दुःखभयापहा ॥४॥
गौराङ्गी दौर्घनयना चतुर्बाहुधराम्बिका ।
सुकेशी दीर्घकेशी च कटाक्षी विशिखोज्ज्वला ॥५॥
रङ्गीरङ्गमयीरङ्गा देहानन्दमयी तथा ।
रङ्गणीया शिवाराध्या रङ्गलीला शिवार्चिता ॥६॥
रामपूज्या रणाचार्या रकारवर्णरूपिणी ।
रक्तधूलिपरिच्छिन्ना राज्ञी रोगविनाशिनी ॥७॥
रौद्री रौद्रस्वरूपा च रुद्रमूर्तीरणाग्रणीः ।
अरुणादित्यवर्णाभा रक्तपद्मदलेक्षणा ॥८॥
रुक्माङ्गदपरिच्छिन्ना रुक्ममालाविभूषिता ।
ब्रह्मपूज्या विष्णुपूज्या रुद्रपूज्या तथेश्वरी ॥९॥
सदार्चिता सदाराध्या महेश-पूजिता मही ।
मालामय्युन्मयो माला मानार्हा मानदायिनी ॥१०॥
वेदाग्री वेदसारा च बालार्कसदृशीति च ।
विधाता विफला वेद-रूपिणी विष्णुरूपिणी ॥११॥
वेदान्तरूपिणी विद्या तथा वैकुण्ठरूपिणी ।
ब्रह्मण्डरूपिणी रक्षा रूपिणो ब्रह्मरूपिणी ॥१२॥
वसुदा सुमहावाला वेदरूपा विनोदिनी ।
कालिका च धराधात्री रौद्री च विश्वरूपिणी ॥१३॥
विरूपाक्षी विशालाक्षी विशाला विषमा विधुः ।
विद्यावती रसवती वलावलवती बधूः ॥१४॥
वैश्वानरोविशाखा च वेशदेशस्वरूपिणी ।
रञ्जनी रङ्गिणी रम्या रामा रासस्वरूपिणी ॥१५॥
रामा श्रीसारसोन्मत्ता रसरूपा रसप्रदा ।
राधिका रामरूपा च राध्या रामार्त्ति नाशिनी ॥१६॥
शतनाम स्तोत्रमिदं यः पठेत् शिवमन्दिरे ।
पठित्वा पाठयित्वा वा सर्वसौभाग्य मालभेत् ॥१७॥
त्रिसन्ध्य यः पठेन्नित्यं भक्त्या द्विवत्सरावधि ।
सर्वसिद्धीश्वरो भूत्वा गाणपत्यं लभेतसः ॥१८॥
इति श्रीकालीविलासतन्त्रे श्रीभैरवी-शतनामस्तवं समाप्तम् ।
ॐ तत्सदित्यादि ।
इति श्रीकालीविलासतन्त्रे त्रयोदशपटलः समाप्तः ।
N/A
References : N/A
Last Updated : December 26, 2025

TOP