संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र| आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् अष्टोत्तरशतनामस्तोत्र श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम् श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम् तुलस्यष्टोत्तरशतनामस्तोत्रं नृसिंहाष्टोत्तरशतनामस्तोत्रम् सरस्वत्यष्टोत्तरशतनामस्तोत्रम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् गौर्यष्टोत्तरशतनामस्तोत्रम् श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ललिताष्टोत्तरशतनामस्तोत्रम् सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम् लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम् श्री सीता अष्टोत्तरशतनामस्तोत्रम् श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं सहस्रशीर्ष्णे वै तुभ्यं स... गणेशहेरंबगजाननेति महोदर! ... श्री देव्युवाच- देव देव म... श्रीशंकराचार्यवर्यश्च ब्र... महाशास्ता महादेवो महादेवस... रजताचलशृंगाग्रमध्यस्थायै ... वासुदेवं हृषीकेशं वामनं ज... अग्नेः अष्टोत्तरशतनामस्तोत्रम् श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम् श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम् अवलोकितेश्वराष्टोत्तरशतनामस्तोत्रम् आकाशगर्भनामाष्टोत्तरशतस्तोत्रम् श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम् बटुकभैरवाष्टोत्तरशतनामस्तोत्रम् आर्यताराष्टोत्तरशतनामस्तोत्रम् आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् इन्दिराष्टोत्तरशतनामस्तोत्रम् उमाऽष्टोत्तरशतनामस्तोत्रम् कालीशतनामस्तोत्रं सम्पूर्णम् ॥ श्रीकमलाष्टोत्तरशतनामस्तोत्रम् कार्तिकेयशताष्टनामस्तोत्रम् श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम् आद्या कालिकादेव्याः शतनामस्तोत्रम् कालिकाशतनामस्तोत्रम् आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.Ashtottara shatanamavali means 108 names of almighty God and Tags : ashtottar shatnam stotradevidevtasanskritstotraसंस्कृतस्तोत्र आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् Translation - भाषांतर प्रणिपत्य मुनिं मूर्ध्ना सुप्रसन्नेन चेतसा ।वक्ष्याम्यद्य च नामानि सम्बुद्धैरनुवर्णितम् ॥१॥सुरूपो रूपधारी च सर्वरूपो ह्यनुत्तरः ।सर्वलक्षणसम्पूर्णो मञ्जुश्रीरुत्तमः श्रिया ॥२॥अचिन्त्यश्चिन्त्यविगतोऽचिन्त्योऽद्भुतविक्रमः ।अचिन्त्यः सर्वधर्माणामचिन्त्यो मनसस्तथा ॥३॥शून्यताभावितात्माकः शून्यधर्मसमन्वितः ।शून्यस्त्वमधिमुक्तिश्च शून्यत्रिभवदेशकः ॥४॥सर्वज्ञः सर्वदर्शी च सर्वभूमिपतिर्विभुः ।मञ्जुश्रीवशवर्ती च पद्माक्षः पद्मसम्भवः ॥५॥पद्मकिञ्जल्कवर्णश्च पद्मपर्यङ्कवासनः ।नीलोत्पलधरः पूतः पवित्रः शान्तमानसः ॥६॥प्रत्येकबुद्धो बुद्धस्त्वमादिबुद्धो निरुच्यसे ।ऋद्धिमान् वशिताप्राप्तश्चतुःसत्योपदेशकः ॥७॥लोकपालः सहस्राक्ष ईश्वरस्त्वं प्रजापतिः ।शिवस्त्वं सर्वभूतानां त्वं विभुर्गुणसागरः ॥८॥ऋषिस्त्वं पुण्यः श्रेष्ठश्च ज्येष्ठो जातिस्मरस्तथा ।विनायको विनेता च जिनपुत्रो जिनात्मजः ॥९॥भानुः सहस्ररश्मिमस्त्वं सोमस्त्वं च बृहस्पतिः ।धनदो वरुणश्चैव त्वं विष्णुस्त्वं महेश्वरः ॥१०॥अनन्तो नागराजस्त्वं स्कन्दः सेनापतिस्तथा ।वेमचित्रासुरेन्द्रस्त्वं भौमः शुक्रो बुधस्तथा ॥११॥सर्वदेवमयो वीरः सर्वदेवैर्नमस्कृतः ।लोकधर्ममलातीतस्त्वं लोके चाग्रपुद्गलः ॥१२॥लोकज्ञो लोकविज्ञातो ज्ञानिनां प्रवरो वरः ।वरदो लयनं त्राणमधृष्यो मारकर्मिणाम् ॥१३॥गम्भीरश्चानवद्यश्च कल्याणमित्रसम्पदः ।वैद्यस्त्वं शल्यहर्ता न नरदम्यः सुसारथिः ॥१४॥मतिमान् गतिमांश्चैव बुद्धिमांश्च विचक्षणः ।पुण्यवान् कल्पवृक्षश्च बोध्यङ्गपुष्पमण्डितः ॥१५॥विमुक्तिफलसम्पन्न आश्रयः सर्वदेहिनाम् ।मनोहरो मनोज्ञश्च अनघो ब्रह्मचारिणाम् ॥१६॥केतुस्त्वं ग्रहश्रेष्ठश्च ऋषिभिर्मुनिपुङ्गवः ।युवराज्ञाभिषिक्तस्त्त्वं दशभूमीश्वरः प्रभुः ॥१७॥सार्थवाहो गणश्रेष्ठो निर्वाणोत्तमदेशकः ।खसमो मध्यकल्पस्त्वं त्वं तेजो वायुरेव च ॥१८॥चिन्तामणिस्त्वं सत्त्वानां सर्वाशापरिपूरकः ।नमोऽस्तु ते महाविद्य सर्वभूतनमस्कृत ॥१९॥इति श्रीआर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : December 21, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP