संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम्

श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीः ।
अथ श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम् ।
निगमान्तगुरोर्नाम्नां प्रभावो येन वर्णितः ।
तं वेङ्कटार्यमनिशं तातार्यतनयं भजे ॥

विदुषा वेङ्कटार्येण तातार्यतनुजन्मना ।
वेदान्तार्यगुरोर्नाम्नां प्रभावो वर्ण्यतेतराम् ॥

सुदर्शनकृपालब्ध वेदतत्त्वार्थसागरम् ।
अनुष्ठितः क्रतुशतं वन्देऽस्मत्पितरं गुरुम् ॥१॥

कुमारतातयाचार्य सदाचारपरं सदा ।
वेदान्ताचार्यसिद्धान्तविजयध्वजमाश्रये ॥२॥

साङ्ख्यसौगतचार्वाकशाङ्करादितमोनुदम् ।
त्रय्यन्तदेशिकं वन्दे वेङ्कटेशाह्वयं महः ॥३॥

श्रीमद्वेङ्कटनाथस्य नाम्नामष्टोत्तरं शतम् ।
सङ्गृह्य तत्प्रसादाय वक्ष्ये सर्वार्थसिद्धिदम् ॥४॥

अथ स्तोत्रम् ।
ॐ घण्टावतारोऽनन्तार्यतनयो वेङ्कटाधिपः ।
श्रीमल्लक्ष्मणयोग्यंशो वरदाचार्यवीक्षितः ॥५॥

रामानुजार्यसन्दृष्टस्सौपर्णमनुचिन्तकः ।
तार्क्ष्यदत्तवरश्शुद्धः प्रसादितहयाननः ॥६॥

अधीतसाङ्गसकलश्रुतिस्मृतिविदग्रणीः ।
इतिहासपुराणज्ञस्सुकविस्तर्कतत्त्ववित् ॥७॥

भाष्यकारो भयहरस्सुधाशीदुग्धराशिकृत् ।
प्रधानप्रतितन्त्रज्ञो देवतापारमार्थ्यवित् ॥८॥

श्रुतविद्यश्श्रावयिता श्रुतपालश्श्रुतप्रदः ।
श्रितः पाण्डित्यदाता च कृतकृत्यः कृती सुधीः ॥९॥

निरस्तसाङ्ख्यः प्रत्युक्तयोगः काणादभञ्जनः
अचिच्चैतन्यवादघ्नः क्षणिकाणुमतार्दनः ॥१०॥

साकारधी निराकर्ता शून्यवादतमोनुदः ।
कुदृष्ट्युरगपक्षीशः सप्तभङ्गीविलोपनः ॥११॥

भेदाभेदमतछेत्ता धूतयादवकल्पनः ।
अनीशवादिदम्भोलिः पाषण्डमतखण्डनः ॥१२॥

संरक्षितागमश्शङ्खचक्रधारणरक्षिता ।
ऊर्ध्वपुण्ड्राङ्कनत्राता शुद्धसत्त्वमयाकृतिः ॥१३॥

यत्याचारप्रतिष्ठाता सर्वतन्त्रस्वतन्त्रधीः ।
अवतार रहस्यज्ञस्त्वर्चासौन्दर्यसक्तधीः ॥१४॥

अर्थपञ्चक तत्त्वज्ञः तत्त्वत्रयविशेषवित् ।
भक्तियोग विरोधिघ्नो भक्तिमान् भगवत्प्रियः ॥१५॥

ज्ञानैकसारो द्वयविद्विभक्ताधिकृतित्रयः ।
चतुश्श्लोक्यर्थ सारज्ञः सम्यग्ज्ञाताङ्गपञ्चकः ॥१६॥

षडङ्गयोग निर्णेता सप्ततन्तुकृदुत्तमः ।
अष्टाक्षरैकनिरतो नवमैकरसाश्रयः ॥१७॥

दशतात्पर्यविज्ञाता शतकृच्च सहस्रवित्
स्थूललक्षोऽनेकनानाकोटिज्ञाननिवर्तकः ॥१८॥

धर्मशङ्कुस्साधुबृन्दवन्दिताङ्घ्रिसरोरुहः ।
पद्माक्षानन्दजनकस्तथाऽनन्तगुणाकरः ॥१९॥

त्यागशब्दार्थविद्धर्मवेदी विधिविशेषवित् ।
उत्तमश्लोकभावज्ञः पञ्चकालपरायणः ॥२०॥

सुरसेव्यः पूर्णमनास्सूरीन्द्रप्रतिरूपकः ।
कवितार्किकपञ्चास्यो निगमाञ्चलदेशिकः ॥२१॥

वैद्यो मुनीन्द्रस्सर्वज्ञः उपकर्ता तथैव च ।
सत्सम्प्रदायस्थिरधीरनघस्सत्यवागपि ॥२२॥

साधुवृत्तिर्मुक्तडम्भो जिताक्षो दीर्घबन्धुमान् ।
दयालुश्शासिता सर्वहिताचरणतत्परः ॥२३॥

महागुरुस्स्वर्णवर्णस्सुबाहुः पुण्डरीकदृक् ।
पवित्रपाणिर्व्याख्यानमुद्राङ्कितकराम्बुजः ॥२४॥

सव्यपाणितलन्यस्तदिव्यपुस्तकभूषणः ।
परशीर्षन्यस्तवामपादाब्जकटकोज्ज्वलः ॥२५॥

फलश्रुतिः -
इतीदं देशिकेन्द्रस्य नाम्नामष्टोत्तरं शतम् ।
सङ्कीर्तयेदनुदिनं सर्वपापापनुत्तये ॥२६॥

पठन्नामशतं भक्त्या श्रुत्वा गुरुमुखाम्बुजात् ।
प्रसादाद्देशिकेन्द्रस्य भुक्तिमुक्ति समश्नुते ॥२७॥

एकैकमपि तन्नाम कीर्तयन् सकृदुत्तमम् ।
सर्वान्कामानवाप्नोति किमुताष्टोत्तरं शतम् ॥२८॥

इति श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 28, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP